________________
सूर्यसिद्धान्तः
[ प्रथमोऽज्योतिःशास्त्रजिज्ञासवे ग्रहाणां प्रवहवायुस्थग्रहताराणां चरितं ज्ञानं प्रादात् । प्रकर्षण साकल्येन यथार्थतत्त्वेनादाद्दत्तवान् ॥ ४॥ __भा० टी०-उसके तपसे संतुष्ट हुए स्वयं सूर्यमगवान्ने प्रसन्न हो बरके चाहने. वाले मय मसुरको ग्रहोंका चरित्र दिया ॥ ४ ॥
नवयं सूर्यः स्वकार्याथै शरणागतमपि स्वशत्रु प्रति कथमिदमुक्तवानित्यतो मयं प्रति साक्षात्सूर्येणोक्तस्य वचनस्यानुवादार्थमुद्यतः प्रथमं तत्संगतिप्रदर्शकमेतदाह
__ श्रीसूर्य उवाच । विदितस्ते मया भावस्तोषितस्तपसा ह्यहम् ॥
दद्या कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥५॥ श्रीसूर्य उवाचेति । तेजःसमूहैदैदीप्यमानोऽकों मयासुरं प्रत्यवददित्यर्थः । अन्यथा चतुर्थपञ्चमश्लोक्योः संगत्यनुपपत्तेः । किमुवाचेत्यतस्तद्वचनमनुवदति । हे मयासुर ते तव भावो मनोरथो ज्योतिःशास्त्रजिज्ञासारूपः मया सूर्येण विदितस्त्वदकथितोऽपि स्वतो ज्ञातः । ततः किं न ह्येतावता मम तत्सिद्धिरत आह-अहमिति । ते इत्यस्यातेस्ते तुभ्यं ज्ञानं शास्त्रं कालाश्रयं कालप्रधानम् । ग्रहाणां प्रवहवायुस्थानां महदपरिमेयं चरितं माहात्म्यम् । ग्रहस्थितिचलनादिप्रतिपादकज्योतिःशास्त्रमिति फलिवार्थः । अहं सूर्यमण्डलस्थः दद्यां दास्यामि । ननु मां दैत्यं प्रतीदं वाक्यं प्रतारकं भविष्यतीत्यतः स्वविशेषणमप्रतारणपूर्वकतत्कथनहेतुमूतमाह-तोषित इति । हि यतस्तपसा त्वत्कृतागधनेनात्यन्तसन्तुष्टोऽतो दद्यामित्यर्थः । तथा च त्वत्कर्मवश्येन मया भक्तजनवत्सलतया जातिवरमुपेक्ष्यानुकम्पितमहादवत्त्वममतार्योऽनुकम्पित इति मावः ॥५॥
मा० टी-सूर्यभगवान्ने कहा:-ने तुम्हारे मभिप्रायको नाना, तपसे संतुष्ट भी हुआ ई, काल ( समय ) के आश्रित हुए ग्रहोंके चरित्रका ज्ञान तुमको दूंगा ॥५॥
ननु सूर्यस्य सदा जाज्वल्यमानतया तत्सन्निधौ श्रषणकालपर्यन्तं मयःस्थातुं कथं शक्तः कथं वानवरतभ्रमस्य तस्य मयसंवादार्थ भ्रमणविच्छेदः सम्भवति । अतो दानासम्भवात कथं दद्यामित्युक्तस्तद्वचनान्तरमनुवदति
नमे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः ॥
मदंशः पुरुषोऽयं ते निःशेष कथयिष्यति॥६॥ हेमय ते तुभ्यमयमग्रस्थः पुरुषो निःशेष सम्पूर्ण ज्योतःशास्त्रं कथयिष्यति । नवयं तथ्यं न वदिष्यतीत्यत आह-मदंश इति । मम सर्यस्यांशः सम्बन्धी मदुत्पन्न इत्यर्थः। तथा च मदनुकम्पितं त्वां प्रत्ययं तथ्यमेव वदिष्यतीति भावः । एतेनाई
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com