________________
पञ्चमीकण्डिका ।
५१
अथर्व वेदस्येति । अथर्ववेदस्य नव भेदा भवन्ति नव शाखा भवन्तित्यर्थः । तानाह । पैप्पला । दान्ता । दामोदान्ता । श्रतापना । जाबाला । शौनका | ब्रह्मपलाशा | कुनखो देवदर्शी । चारणविद्याश्चेति ॥ तेषामध्ययनं द्वादशैव सहस्राणि मन्त्राणाम् । कोदृशानि पञ्चकल्पानि भवन्ति । अत्र बहुवचनाभे बहवः । यत्त्र एकवचनं स एकः । तेषामध्ययनं शाखया उच्यते । दादशसहस्राणि मन्त्राणां कौदृशानि । एकस्मिन्कल्पे कल्पे पञ्चशतानि मन्त्राणाम् । कल्पान्याह । नक्षत्र कल्पः । विधानकल्पः । संहिताविधिकल्पः । श्रभिचारकल्पः । शान्तिकल्पः । इति पञ्चकल्पाः । तव वेदानां चत्वारउपवेदा भवन्ति । यथा ऋग्वेदस्योपवेद पायुर्वेदः चिकित्साशास्त्रम् । यजुर्वेदस्योपवेदो धनुर्वेदो युद्धशास्त्रम् । सामवेदस्योपवेदो गान्धर्ववेदसङ्गीतशाखम् । अथर्ववेदोऽर्थशास्त्रं नौतिशास्त्रम् । शस्त्रशास्त्रं विश्वकर्मादिप्रणीत शिल्पशास्त्रम् । इति भगवान्वेदव्यासः स्कन्दः कुमारो वाऽऽह । य इमे चत्वारो वेदा उक्तास्तेषां मध्ये एकैकस्य कौदृशं रूपं प्राकारः तत्तहीं सितासितादि । वणविधः प्रकारचोच्यते । तवादौ ऋग्वेदखरूपमाह । ऋग्वेदः पद्मपत्रायताचः पद्मपत्रं कमलदलं तद्ददचिणी नेत्रे यस्य सः । सुविभक्तः । सुविभक्ता रेखावयाङ्किता ग्रौवा यस्य सः । कृञ्चितकेश श्मश्रुः । कुञ्चिताबलौमन्तः केशाः शिरसिजाः श्मश्रूणि मुखरोमाणि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com