________________
३६
चरणव्यूहपरिशिष्टभाष्ये ।
रविः । श्रयातयामसञ्ज्ञानि यानि वेत्ति न तद्गुरुः । १८ । यजूंषि यैरधौतानि तानि विमेर्द्विजोत्तम । वाजिनस्ते समाख्याताः सूर्याश्वाः स भवेद्यतः । १६ । शाखाभेदस्तु तेषां वै दशपञ्च च वाजिनाम् । कण्वाद्य स्तु महाभाग याज्ञवल्क्य कौर्त्तिताः । २० । इति । तद्गुरुवैशम्पायनो यानि न वेत्ति तेषां व्यासेनानुपदि ष्टत्वादिति भावः । वाजिन समाख्याता वाजि रूप सूर्यप्रोक्तसंहिताध्यायित्वात् अग्निपुराणेऽपि । काण्वा - माध्यन्दिनीसञ्ज्ञा कठो माध्यकठौतथा । मैत्रायसौयसञ्ज्ञा च तैत्तिरीयाभिधानका । वैशम्पायनिकेत्याद्याः शाखा याजुष सञ्ज्ञिता । इति । आदिशब्देन एतदन्यशाखाग्रहणम् । तदुक्तं नृसिंहपराशरे । प्रथमो याज्ञवल्क्यच आपस्तम्बी द्वितीयकः । तृतीयो मूलघटकाच्चतुर्थो वाणसः स्मृतः । पञ्चमः सहवामश्च षष्ठः स्याद्गोत्रपण्डितः । समानुजः सप्तमोक्त अष्टमश्व गयावल: । विदण्डो नवमः प्रोक्तो नवशाखाः प्रकीर्त्तिताः । तन्मध्ये सहवासस्तु कर्मनिष्ठो द्विजाग्रणीः। एवं शाखादेशभेदाद्दहवस्तु द्विजातयः । तत्रापि कर्मनिष्ठाश्च ग्राद्या यज्ञादिकर्मसु । होना द्विजातय: स
त्याज्या: सर्वत्र कर्मसु । होना द्विजातय: अभीरादयः, । परदेशे विदण्डवेषधारिणः । सन्यासिनः खग्रामे परिग्रहयुक्तास्ते त्रिदण्डिनः । गोत्रपण्डितो वैश्ययाजकः । मूलघटको नागवल्लोरोपकः । निर्गल। इति प्रसिद्धाः । अन्ये वाणासादि प्रसिद्धाः । केचि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com