SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ गच्छ जयपताका] (२१) सामाचारी समाचरितेति तत्कालीनैर्ग्रन्थैस्ताम्रशासनैराचारैश्चावर गम्यते । अद्यापि विवादेऽत्रासंपृक्तैस्तटस्थैस्सर्वैरपि तपोगच्छीयैराचार्यैस्सैव सामाचारी समाचार्यते । श्रीमदाचार्यविजयरामचन्द्रसूरीणां ये परमगुरवः तेषां परमगुरुभिः श्रीविजयानन्दसूरिभिः निजनिर्मितश्रीजैनतत्त्वादर्शग्रन्थे श्रीविजयदेवसूरिगच्छीयत्वमेव स्वस्य प्रत्यपादि । किञ्च-आचार्यश्रीविजयदेवसूरीणामनुपमं पाण्डित्यं अप्रतिहतं प्रतिभावैभवं चाद्यापि पण्डितवरैस्स्तूयत एव । यतो न्यायविशारदः श्रीयशोविजयोपाध्यायैर्निजनिर्मितज्ञानसागरे गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, - प्रौढिं प्रौढिमधानि जीतविजयप्राज्ञाः परामैयरुः। तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशोः, • श्रीमन्न्यायविशारदस्य कृतिनामेषा कृतिः प्रीतये ॥ इति देवसूरिगच्छीयत्वमेव स्वस्य प्रतिपाद्यते स्म ॥ एवं यशोविजयोपाध्यायप्रभृतिभिः अन्यैरप्याचार्यवयः बहुभिः "सूरिः श्रीविजयादिदेवसुगुरुः तत्पट्टभास्वानभूत् भूयास्तत्सुकृतानुमोदनकृते ग्रन्थोऽयमुज्जृम्भतात् ।" "जयति विजयदेवस्सूरिरेतस्य पट्टे, मुकुटमणिरिवोधकीर्तिकान्तिप्रतापः । प्रथितपृथुतप:श्रीः शुद्धधीरिन्द्रभूतेः, प्रतिनिधिरधिदक्षो जङ्गमः कल्पवृक्षः॥" इत्यादिना स्तुतिकदम्बकेन श्रीविजयदेवसूरीन् सगौरवगरिमप्रशंसद्भिः श्रीदेवसूरिंगच्छीयत्वमेवात्मनस्साध्वङ्गीकृतम् । ते च सर्वेऽज्याचार्यान् महापुरुषत्वेन समादृतावन्त एवेति तैस्तैः प्रमाणैरवगम्यते । अतश्च जीतव्यवहारत्वसिद्धयेऽपेक्षितेषु चतुर्वशेषु यः प्रथमोऽशो युगप्रधानसदृशाचार्यप्रवर्तितत्वमिति तदत्र निर्विवाद प्रसिध्यति । अभ्युपगतश्चायमंशो मध्यस्थेनाऽपि “यद्यपि आचार्यश्रीविजयदेवसूरयस्सङ्घप्रधाना. आसन्” इति ब्रुवता । (१) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy