________________
( २ ) इति यावज्जीवं कमीनेष्ठोक्ता । तथा भगवद्गीतास्वपि भगवता श्रीवासुदेवेनार्जुनं प्रति कर्मशब्देन धर्म एवोपदिष्टः श्रूयते
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । कुरु कर्मैव तस्मात्त्वं पूर्वेः पूर्वतरैः कृतम् ॥ इति । ननु कथं कर्मणो मोक्षसाधनत्वम् । उच्यते यद्यपि-तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् । ज्ञानादेव तु कैवल्यमि. त्यादिभिर्मोक्षस्य ज्ञानैकसाध्यत्वं प्रतिपाद्यते तथाऽपि विविदिषन्ति यज्ञेन, ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः, अविद्यया मृत्यु तीवा विद्ययाऽमृतमश्नुते, इत्यादिश्रुतिस्मृतिभिर्मोक्षसाधनब्रह्मात्मैक्यज्ञानस्य विविदिपानिबन्धनत्वाद्विविदिषायाश्च चित्तशुद्धिनिबन्धनत्वाच्चित्तशुद्धश्च पापक्षयनिबन्धनत्वात्पापक्षयस्य च ,कर्मानुष्ठाननिबन्धनत्वान्मोक्षहेतुज्ञानोत्पत्तिप्रतिबन्धकदु. रितक्षयाख्यचित्तशुद्धया विविदिपोत्पादनद्वारा विद्योत्पत्ती कर्मणामुपयोगावधारणात्परम्परयाऽपि यथाकथंचित्तत्त्वाङ्गीकार इत्याशयात् । अत एव कूर्मपुराणे
इत्येतदखिलं प्रोक्तमहन्यहनि वै द्विजाः । ब्राह्मणानां कृत्य जातमपवर्गफलप्रदम् ॥ नान्यो विमुक्तये पन्था मुक्त्वाऽऽश्रमविधि स्वकम् ।
तस्मात्कर्माणि कुर्वीत तुष्टये परमेष्टिनः ॥ इत्युक्तं संगच्छते । श्रीमदाचार्यचरणैरपि शारीरकभाष्ये'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' (३।४।२६) इति सूत्रे मोक्षसाधनज्ञानहेतुत्वमग्रीन्धनादिकर्मणां प्रतिपादितम् । एतावता प्रब. न्धेनैहिकं संपदैश्वर्यादिरूपं पारलौकिकं स्वर्गादिरूपं तदुभयविलक्षणं जननमरणनित्तिरूपं च सुखं संपिपादायषुभिः सर्वथा वेदविहितं कमवावश्यमाचरणीयमिति सिद्धम् । ततवैतादृशमहामहिमशालि कर्मानुतिष्ठासूनां मङ्गलपथप्रदिदर्शयिषयाऽपगता. यासं तदवबोधाय तदनुष्ठानसोकर्याय च सत्त्वनिष्ठैः सदाचारनिरतैरीश्वरैकप्रवणचित्तर्वसिष्टेरिवापराकरणन्यायमीमांसादिनिखिलशास्त्रपारदृश्वविद्वन्मुकुटहीरश्रीमद्भास्करशास्त्रिगुरुभिरस्म
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com