SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ॐ तत्सब्रह्मणे नमः । संस्कारपद्धतिः । प्रणम्य परमात्मानं सच्चिदानन्दविग्रहम् । संस्कारपद्धतिं लघ्वीं प्रदर्शयति भास्करः || तत्र संस्कार परिभाषादिकथनम् । अथ सत्याषाढसूत्रं भाष्यादिग्रन्थांश्च पर्यालोच्य बालानामसंदि• धार्थप्रतिपत्तयेऽनुष्ठान सौकर्याय च संक्षेपेण संस्काराः संगृह्यन्ते । अर्थ संस्काराः - गर्भाधान पुंसवन सीमन्तोन्नयन जातकर्म नामकरणान्नप्राशनचौलोपनयनानि चत्वारि काण्डव्रतानि समावर्तनं विवाहः पञ्च महायज्ञा अष्टका पार्वणस्थालीपाको मासिक श्राद्धं श्रावणपौर्णमास्यां विहितं श्रवणाकर्म मार्गशीर्ष पौर्णमास्यां विहितं प्रत्यवरोहणं चैत्रपौर्णमास्यां विहितः शूलगव आश्विन पौर्णमास्यां विहितमाश्वयुजीकर्मेति सप्त पाकयज्ञसंस्था अग्न्याधेयमग्रिहोत्रं दर्शपूर्णमासी चातुर्मास्यान्याग्रयणेष्टिर्निरूढ पशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्था अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी बाजपेयोऽतिरात्रोऽशोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वारिंशत्संस्काराः, दया क्षमाऽनसूया शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहति अष्टावात्मगुणाः, मिलित्वाऽष्टचत्वारिंशद्विजानां समन्त्रकाः संस्कारा विहिताः । शूद्रस्य तूपनयनकाण्डव्रतादिभिन्ना मन्त्ररहिताः । स्त्रीणामपि जातकर्मादिचूडान्ता अमन्त्रका इति । अन्येऽपि कर्णवेधादयः संस्काराः शास्त्रान्तरोक्तास्तत्र तत्र वक्ष्यन्ते । सर्वेषां च फलानि दृष्टानि अह ष्टानि च योगेन भविष्यन्ति परिस्फटानि च तत्तत्कर्मणि । अथ वक्ष्यमाणकर्मणां परिभाषा - स्नात उपवीती पवित्र वास्कृताचमनस्तिलकधरो वद्धचूडः श्रद्धायुक्तो धौतवस्त्रधरो मौनी दम्भासूया - दिवर्जितो नैकवासा अमोदपादः कर्मारम्भे कृतप्रणव इत्यादयो भूर्यांसो नियमा अभिहितास्ते च तत्तत्कर्मणि ग्रन्थान्तरादवगन्तव्याः । तादृशधर्मविशिष्ट भूत्वा कर्म कुर्यादित्यर्थः । अत्र यद्यपि सर्वत्र मन्त्रादावृष्यादिज्ञानार्थं तत्तदृपिच्छन्दोदेवतानामुत्कीर्तनं कर्तव्यमिति स्मृतिषु साधारण्येनाभिहितं तथाऽपि तस्य शाखाविशेषे सूत्रकृद्भिर्व्यवस्थापनान सर्वशाखाविषयम् । तथा हि कात्यायनकृताश्वलायनसर्वानुक्रम• श्यामथ शाकलके, इत्युपक्रम्य क्रमवैशिष्टयेन ऋष्याद्युत्कीर्तनस्य स Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy