SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ विवाहप्रयोगः । ॐ देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् । क्रव्यादो मृत्यूनधरान्पादयामि दीर्घमायुस्तव जीवन्तु पुत्र: स्वाहा । अग्नय इ० | ११७ इति षट्धानाहुतर्वारुणीजिद्वायां ज्वालामध्य एव वा हुत्वेमं मे वरुणेत्यादिपडाहुती हुत्वोत्तर परिधि संधि-ग्रेणाऽऽसादितमश्यानं निधाय ॐ आतिष्ठेममश्मानमश्मेव त्व५ स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्त्र पृतनायतः ॥ तत्र दक्षिणपादोपक्रमेण वधूं मामुखीमास्थापयति । ततोऽपानं निष्काशयेत् i अथ पाणिग्रहणम् -बरो ज्योतिर्विदादिष्टे मुहूर्तेऽपरेणाभिं दर्भराशिद्वयं पूर्वापरमुदगग्रमास्तीर्य ॐ सरस्वति मेदमित्र सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रजायामस्यग्रतः ॥ ॐ गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसत् । भगो अर्यमा सविता पुरंधिर्मयं त्वाऽदुर्गार्हपत्याय देवाः ॥ इतेि द्वाभ्यां पूर्वदर्भराशाववस्थितः प्रत्यङ्मुखो वरोऽपरदर्भराशाववस्थितायाः प्राङ्मुख्या भार्यायाः साङ्गुष्टं सलोममुत्तानं हस्तं गृह्णीयात् । ततस्तस्या आत्मानमग्रेण स्थिताया दक्षिणमंसं धृत्वा प्रसव्यं स्त्रस्य दक्षिणतः प्रत्यङ्मुखी यथा स्यात्तथा प्रतिनिवर्त्य ॐ अघोरचक्षुरपतिघ्न्यधे शिवा पशुभ्यः सुमनाः सुवर्चाः । जीवसूरसूः स्योना शं न एधि द्विपदे शं चतुष्पदे || तां नः पूषञ्छितमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः महरेम शेषम् ॥ सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः | तृतीयोऽग्निष्टे पतिस्तुरीयोऽहं मनुष्यजाः ॥ सोमोऽददाद्गन्धर्वाय गन्धर्वोऽग्नयेऽददात् । पशुश्च म पुत्राश्चाग्निर्ददात्यथो स्वाम् || अमूहमस्मि सा त्वं द्यौरहं पृथिवीत्वम् । सामाहमुक्त्वं तावेहि संभवाव सह रेतो दधावहै ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy