SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ समावर्तनम् । ॐ यो मे दण्डः परापतद्विहायसोऽधिभूम्याम् । इमं तं पुनराददेऽयमायुषे च बलाय च ॥ इति दण्डं पुनरादत्ते यदि गृहीतो हस्तात्पतेत् । इदं दण्डधारणं मधुपर्कसमाप्त्यन्तमावश्यकम् । ततो रथाद्यन्यतमं यानमारुह्य पूजकसमीपं गच्छेत् । गृह एव यदि पूजकस्तदा वाहनारोहणाभावः । ॐ ससवन्तु दिशो मयि समागच्छन्तु सूनृताः । सर्वे कामा अभियन्तु नः प्रिया अभिस्रवन्तु नः प्रियाः ।। इति दिश उपतिष्ठते । ततो यत्र पूजां करिष्यन्तो भवन्ति तत्र गच्छन्नेव ॐ यशोऽसि यशोऽहं त्वयि भूयासममुकशमन्निति सम्यगीक्षते। अथ मधुपर्क:-पूजकः समावर्तनदिने स्वगृहं प्रत्यागताय स्नातकायाssसनादि कल्पयित्वा पूज्यं प्राङ्मुखमुपवेश्यानियतसंख्यदर्भमयं कूर्च प्र. कल्प्य पाद्यार्था अपो हस्वपात्रे संभृत्य महापात्रेणापिदध्यात् । एवमा. नामाचमनीयानां च पृथक्पात्रयोः संभरणमपिधानं च । ततः कांस्यपात्रे दध्यानीय मध्वानयति । ततो घृतमिति त्रिवृतं मधुपर्क कृत्वा महापा. त्रेण पिधाय सूत्रेणाऽऽवेष्टयेत् । ततो गां वस्त्रं यज्ञोपवीतद्वयं यथाविभवमा. भरणानि माल्यादीनि चोपकल्पयेत् । गृहस्यैशानभागे प्रागग्रान्दर्भानास्तीर्य तेषु द्रव्याणामासादनम् । पूजकः पूज्यस्य दक्षिण उदङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालो संकीत्य॑मं स्नातकं मधुपर्केण पूजयिष्य इति संकल्पं कुर्यात् । पूजक उच्चैः-ॐ अर्घ इति त्रिः सकृद्वा पूज्यं प्राह । कुरुतेति पूज्यः। तत उच्चैः-ॐ कूर्च इति त्रिः सकृदा माह । पूज्यः सुकूर्च इत्युक्त्वा हस्ताभ्यां प्रतिगृह्य ॐ ' राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् ' उदगग्रे कूर्चे प्राङ्मुख उपविशेत् । ततः-ॐ पाद्यमिति त्रिः सकृद्वा प्राह । सुपाघमिति पूज्यः । ततः पूज्यस्य पादौ प्रक्षालयति । अत्र स्मार्त द्विराचमनम् । ततः पूज्य: विराजो दोहोऽसि मयि दोहः पद्यायै विराजः । प्रक्षालयितुहस्तावभिमृशति । .. - मयि तेज इन्द्रियं वीर्यमायुः कीर्तिर्वों यशो बलम् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy