SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । २७ काञ्चनार्कम् । जातिकाफललवङ्गपिप्पलीः शाणसंमितविभागकल्पिताः ॥ कर्षभागमितचन्द्रवालिका शुक्तिसंमितमथोषणं तथा ॥२५॥ शृङ्गवेरकपलद्वयान्वितं सर्वसंमितमिहार्ककाञ्चनम् ॥ चूर्णमेतदखिलं समानमायोजितं च सितया निषेवितम् ।। हन्ति कासगुदजानिमार्दवं श्वासगुल्ममरुचिं क्षयं ज्वरम् ।। प्लीहवृद्धिमुदरातिसारकं छर्दनग्रहणिकामयादिकम् ॥ २५६ ॥ कनकार्कम् । दाडिमापलमूषणाभयाशाणकं मगधजायवोद्भवम् ॥ शाणकं च गुडकं च सर्वतस्तुल्यमर्ककनकोद्भवं रजः॥ एतदग्निबलमात्रया रजो योजितं हरति कासमुद्भवम् ॥ श्वासयक्ष्मजठराग्निमार्दवं पीनसं खरविघातमुल्यणम् ॥ चतुःसागरम् । हेममानुरसगन्धकं समं काकमाचिसहजद्रवप्लुतम् ॥ साधितं लघुपुटे शरावके योजितं जयति सर्वमामयम् ।। काञ्चनायसम् । गोस्तनीककुभवल्कवानरीबीजपिप्पलिबलाः सकचुराः॥ चूर्णिताः समसिताः प्रयोजिता लोहकाञ्चनसमुद्भवं रजः॥ सर्वतुल्यसितया प्रयोजितं वह्निकालबलमात्रया कृ(धृतम् ॥ हन्ति यक्ष्म सपरिग्रहं नृणां सेवया दुरितमच्युतो यथा ॥ ___ जातरूपायसम्। भृङ्गपिप्पलिशुभैलवालुकं जीवनीयगणकं मुरान्वितम् ॥ चूर्णितं सममनेन संमितं जातरूपकमयश्च साधितम् ॥२६२॥ शर्कराज्यमधुतुल्यशीलितं मात्रया हितभुजा दिने दिने । वह्निनाशमरुचिं सपीनसं शोषमझकृशतां नियच्छति ॥२६३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy