________________
प्रथम गीर्वाणसाहित्यसोपानम् । जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चते पितरः स्मृताः ।।४८॥ देशानुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः। तत्रैव निधनं यान्ति काकाः कुपुरुषा मृगाः ॥४९॥ हे दारिद्य ! नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः। पश्याम्यहं जगत्सर्वे न मां पश्यति कश्चन ॥५०॥ चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः। नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥५१॥ वैद्यराज ! नमस्तुभ्यं यमराजसहोदर । यमस्तु हरति प्राणान् वैद्यः प्राणान् धनानि च ॥ ५२ ।। नारिकेलसभाकारा दृश्यन्तेऽपि हि सज्जनाः। अन्ये बदरिकाकारा बहिरेव मनोहराः ॥५३॥ मुखं पद्मदलाकारं वाणी चन्दनशीतला । हृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ।। ५४ । न विना परवादेन रमते दुर्जनो जनः । काकः सर्वरसान् भुक्त्वा विनाऽमेध्यं न तृप्यति ॥५५॥ उष्ट्रकस्य गृहे लग्नं रासभः स्तुतिपाठकः । परस्परं प्रशंसन्ति बहो रूपमहो ध्वनिः ॥ ५६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com