________________
प्रथमं गीर्वाणसाहित्यसोपानम् । पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम् ।। ३९ ॥ रूपयौवनसंपना विशालकुलसंभवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥४०॥ यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति । तस्य दिवाकरकिरणैनलिनीदलमिव विकास्यते बुद्धिः॥४१॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्बुवा नीतिर्मतिर्मम ॥ ४२ ॥ यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ४३ ।। गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥ ४४ ॥ चलं वित्तं चलं चित्तं चले जीवितयौवने । चलाचलमिदं सर्व कीर्तिर्यस्य स जीवति ॥ ४५ ॥ साक्षरा विपरीताश्चेद्राक्षसा एव केवलम् । सरसो विपरीतश्चेत्सरसत्वं न मुश्चति ॥ ४६॥
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।
जातौ जातौ नवाचारा नवा वाणी मुखे मुखे ।। ४७ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com