SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । ॥ बालावमाननम् ॥ प्रथमो भागः अत्रैव भरतक्षेत्रेऽयोध्या नाम नगरी वर्तते । तस्यामयोध्यानगर्या श्रीसरदेवो नाम महीपालः । तस्य च कान्ता पट्टदेवी सूरकान्ता । सा चापत्यसुखं न लभते । अन्यदा गवाक्षे शीतलस्यानिलस्य पानायोपविशति । गवाक्षस्य विवरेण बहिः पश्यति । तत्र तरुतले निजबालैः सह कुक्कुटी क्रीडति । राज्ञी तदीक्षते । निजस्यानपत्यतां स्मरति दुःखं चानुभवति । प्राणं विना यथा न शोभते वदनं तथा पुत्रं विना सदनम् । ____ तत्र भूपतिरागच्छति महिषर्षी च पृच्छति । देवि! शोकस्य किं कारणम्-इति । सूरकान्ता सर्व नृपाय कथयति । सूरदेवोऽपि दुःखमनुभवति । एतावताऽऽरामपालक आगच्छति । नृपं प्रणमति निवेदयते च । हे देव! कोऽपि मुनीश्वरः संप्रति तवारामभूमौ समवसरति-इति । ततोऽवनीपालो राड्या सह तत्र गच्छति । मुनि प्रणमति क्षितिपीठे च निविशति । मुनिर्धर्मदेशनां प्रारभते । अनन्तरं सूरदेवो निजस्यानपत्यतादुःखस्य कारणं तं पृच्छति॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy