________________
प्रश्नभूषणम् ।
वामनाडी तदा पुत्री वहमाना विशेषतः ॥ ८० ॥ लग्ने यदि सुताधीशः पञ्चमे सुतनायकः ॥ बलिना शशिना युक्तस्तदा पुत्रो न संशयः ॥ ८१ ॥ पञ्चमे यदि पापानां संयोगो वा विलोकनम् ॥ तदोत्यातं विजानीयाद्गुरुदृष्टिं विना बुधः ॥ ८२ ॥ प्रश्नकाले ऽङ्गपुत्रेशौ निजोच्च भवतो यदि ॥ तयोः परस्परं दृष्टिस्तदा पत्रं विनिर्दिशेत् ॥ ८३ ॥ अस्तां पञ्चमाधीशे नीचे वा खन्नपीड़िते ॥ पुत्रो न जायते तस्य भवत्यपि विनश्यति ॥ ८४ ॥ पञ्चमेशो यदा युक्तो राहुणा वा कुजेन वा ॥ तदा सन्तानहानिः स्यादित्युक्तं पूर्वसूरिभिः ॥ ८५ ॥ इति प्रसवकालज्ञानम् ॥
अथ रोगिणो मरणप्रत्रः ॥
प्रश्ननग्नोपगं पापभं रोगिणः पापयुक्तेशिनं चाष्टमर्त्तं यदा ॥ पापयोरन्तरे पापयुक्तोऽष्टमे चन्द्रमा मृत्यु योगो भवेत्सत्वरम् ॥ ८६ ॥ प्रश्न नाणे पापखेटा व्यये
नैधने चन्द्रमा वा नगे लग्नभे ॥ नैधने शत्रुभे सत्वरं रोगिणो
मृत्यु योगस्तदा व्यत्यये व्यत्ययः ॥ ८७ ॥ 'चन्द्रे लग्ने कलचे ऽर्के शीघ्र रोगो विनश्यति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
११
www.umaragyanbhandar.com