________________
नं. १८. प्रयागवाळा शास्त्री भीमसेनशानो अभिप्राय.
कोविधः पशुहिंसाविधिः कस्मिन् शास्त्रे उक्तः सिंहादयो निर्बलप्राणिघातकाः प्रजापीडकाः पश्वादया प्रजारक्षायै क्षत्रिय राजपुरुषैर्हन्तव्या इति वेदादि सर्वशिष्टानुमतशास्त्रेषु विहितम् । यश्च मधुपर्केच यज्ञेच पितृदेवतकर्मणि ॥ अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः इत्यादिना शिष्टानुमतमन्वादि प्रणीतधर्मशास्त्रेषु पशुवधो विहित इव लक्ष्यते स च नायं पशुवध विधिरपि तु विध्याभास एव । न हीदृशानि वांसि मन्वादि महर्षिप्रणीतान्यपि तु पश्चात्कैश्चित्स्वार्थिभिःप्रक्षिप्तानीत्यनुमीयते॥
तथाचोक्तं ॥ महाभारते मोक्षधर्मपर्वणि अव्यवस्थितमर्यादेविमूढेनास्तिकैनरैः संशयात्मभिरव्यक्तः हिंसा समनुवर्णिता ॥१॥ सर्वकर्मखहिंसां हि धर्मात्मा मनुरब्रवीत् अहिंसा सर्वभूतेभ्यो धर्मेभ्यो जायसी मता ॥२॥ सुरामत्स्याः पशोमांसमासवं कृसरोदनं धूर्तेः प्रवर्तितं ह्येतन्नेतद्वेदेषु कल्पितं ॥३॥ मानान्मोहाच लोभाञ्च लोल्यमेतत्प्रकीर्तितम् । विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः॥४॥ तस्यतेनानुभावेन मृगहिंसात्मनः सदा तपोमहत्समुच्छिन्नं तस्मात् हिंस्या न यज्ञियाः ॥ ५॥ ,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com