________________
नं. ४.
वडोदरावाळा शास्त्री राजाराम काशीनाथनो अभिप्राय.
नवरात्राद्युत्सवसंबन्धेन देवीपूजायां बाह्मणेतरेषां महिषमेषाजादयो येबलयःपुराणादिवचनैनिर्णयसिन्धुप्रभृतिधर्मग्रन्थेषु विहिताःते मुख्यकल्पेन प्रत्यक्षतया अवश्यं कर्तव्या किंवा सौत्रामण्यादौपयोग्रहवदनु कल्पेन विधातव्या इति प्रश्न उत्तरम् यद्यपि. निर्णयसिध्वाद्यनुसारेण प्रायेण भारतवर्षे सर्वत्रमहाराजादिगृहेषु श्रीविंध्यवासिनीप्रभृतिमहास्थानेषुव मुख्यकल्प एव प्रचारितः परंपरागतो दृश्यते "प्रभुः प्रथमकल्पस्य योनुकल्पेन वर्तते निष्फलं तस्य तत्कर्मेति स्मृतेः, न तथा बलिदानेन पुष्पधूपविलेपनैः॥ यथासंतुष्यतेमेषैर्महिषैविध्यवासिनीति” हेमाद्रिनिर्णयामृतसिन्ध्वादिभू. तभविष्यवचनाञ्चशाक्त ख्यकल्पत्रानुष्टेयइतिप्राप्तम् ॥अशक्तौ ब्राह्मणेनच कूष्माण्डादिभिबलिदानकार्यमितिनिर्णयसिंधूक्तेश्च तथापितत्सकामानुष्टानपरम् ॥ घातयन्तिपशून्भक्यातेभवन्तिमहाबलाइतिफलविशेषश्रवणात् निष्कामरहिंसादियमनियमादिपूर्वकोपासनाज्ञानपरैः कूष्मांडादिभिरनुकल्पो विधातव्यः ॥ न चशक्तिसत्वे मुख्यकल्पाननुष्ठाने पूर्वोक्तवचनाभ्यां निष्फलतरानुष्ठानस्यभगवत्या असंतोषो का भवेदिति वाच्यम् ॥ महिषादीनां किंचिन्नासाकर्णादि छित्वा भगवत्यै समर्पणेनापि उक्तदोषस्य सुपरिहरत्वात् । अश्वमेधादौ पर्यनिकृतारण्यपशूत्सर्गवत् ॥ अतएवमधुपर्के
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com