SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। १८९ व्यमाता सूचिके रागद्वेषयोर्दग्धयोरिव ॥४६१॥ प्लुष्टेण्वस्थ्यतिरिक्तेषु धातुपिण्डेषु वह्निना। चितां व्यध्यापयन् मेघकुमाराः क्षीरवारिभिः ॥४६२।। अथापसव्ये ऊर्वाधोद्रंष्ट्रे त्रिजगदीशितुः। आददाते सुधर्मेन्द्रचमरेद्रौ मणी यथा ॥४६३।। उपर्यधः स्थिते चात्त वामे वामेयदंष्टिके। ईशानेन्द्रबलीन्द्राभ्यां दन्ताश्चान्यैः सुपर्वभिः ॥४६४॥ अस्थि निजगृहुः क्षमापा भस्माद्यं चापरे नराः। शोकक्लेशकलिध्वंसक्षम दंष्ट्रादि यद्विभोः ॥४६५॥ अथ नाथचितास्थाने स्तूपं रत्नमयं हरिः। व्यधाश्चान्यचितास्थाने सुपर्वाणः परे व्यधुः ॥४६६।। व्यशीत्याऽब्दसहस्राणां सार्धसप्तशतीजुषा । श्रीनेमिनिवृतः पावनिर्वृतिः समजायत ॥४६७॥ इत्यात्मबोधिरत्नेन जन्मपत्रीमिवाद्भुताम्। प्रशस्तिमलिखत् तत्र स्तूपे वज्रेण वज्रभृत् ॥४६८॥ (युग्मम्) द्वीपे नन्दीश्वरेऽष्टाहमहिमानमनेकधा। कृत्वा निज निजं स्थानं जग्मुः सेन्द्राः सुराः समे ॥४६९।। ललितवर्णचमत्कृतिकारिणी लसदलंकृतिधोरणीधारिणी । भवतु पार्श्वकथा सुकुमारिका विबुधवृन्दकरग्रहणोचिता ॥४७॥ श्रेयःश्रीश्रयणं श्रयामि विनमद्देवेन्द्रमालामिलप्रोन्मीलत्कुसुमालिमालितपदं संपत्पदं तं जिनम् । यस्य स्फारफणेषु सप्तमणयः प्रोद्दीप्रदीपाकुराऽऽकारान् सङ्कलयन्ति सप्तभुवनवासप्रकाश्रिये ॥४७१।। अष्टौ निष्ठुरकर्ममर्मकरणान् कुरान् स्वकर्मद्विषो जेतुं यो युगपद् बभूव भगवान् स्पष्टाष्टमूर्तिप्रधः। मूोद्भासिफणीन्द्रसत्फणमणिश्रेण्यां समं बिम्बितः पार्थोऽव्यात् तमसस्तमालफलिनीनीलोत्पलश्यामलः ॥४७२॥ दशमवविभवैकस्फारविस्तारतारं व्यरचि चरितमैतद् यद् मया पार्श्वभर्तुः। व्रजतु विधुविधानां कण्ठपीठेषु शश्वत् कमलविजयरम्यं दामशीलं सलीलम् ॥:४७३॥ नैवाहंकृतये न कोविदकुलालङ्कारतालन्धये नो वा काव्यसनाथतापिपरिषवेतश्चमत्कृन्मुदे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy