________________
(७६)
नरपतिजयचर्याअष्टाविंशोज़गा रेखा अष्टाविंशतितिर्यगाः॥ अंशचक्रं भवत्येवं यदुक्तमादियामले ॥ १॥ कृत्तिकादीनि भान्यत्र पादाक्षरक्रमेण च॥ साभिजिन्ति न्यसेत्सर्वाण्यष्टाविंशतिसंख्यया ॥२॥
अष्टाविंशोर्द्धगेतिारेखाः समाः किंचित्कोष्ठापरि गताः यथा तदेखोपरि द्वादशाधिकशत कृत्तिकादीनां चरणवर्णी अइरएकृत्तिकाद्या लिख्यते ॥ १॥ तदर्थमाह ॥ कृत्तिकादीनीति ॥२॥
यो ग्रहो यत्र ऋक्षाशे तं तत्रैव न्यसेद्बुधःविधयेत्सम्मुखं वर्ण करो वाथ शुभोपि वा ॥ ३ ॥ आद्यांशेन चतुर्थाशं चतुर्थाशेन चादिमम् ॥ द्वितीयेन तृतीयं तु तृतीयेन द्वितीयकम् ॥ ४॥ यस्य नामाक्षरं विद्धमंशचक्रे ग्रहेण तु ॥ क्रूरैरिष्टं शुभैहानियाथैमृत्युन संशयः ॥५॥ करोभयस्थिते वेधे मृत्युर्विघ्नं शुभाशुभैः ॥ शुभो भयगते वेधे व्याधिः पीडा च बंधनम् ॥६॥ वैधव्यं च विवाहे च यात्रायां न निर्वतते ॥रोगे मृत्यू रणे भंगः क्रूरवेधे न संशयः ॥ ७॥ अद्रयः सागरा नद्यो देवग्रामपुराणि च ॥ करवेधे विनश्यति नात्र कार्या विचारणा ॥ ८॥ चंद्रऋक्षाशके वेधो भवेद्यद्यपरग्रहैः ॥ तन्मानं तदिने वयं सर्वदा शुभकणि ॥ ९ ॥ इति नरपतिजयचर्यायां स्वरोदये अंशस्वरचक्रम् ॥
यो ग्रह इति ॥ ३ ॥अथ वेधमाह । आद्यांशेनेति । अयमर्थश्चके ज्ञातव्यः॥ ४ ॥ यस्य नामाक्षरमिति ॥५॥रोभयस्थितेति ॥ ६ ॥ वैधव्यं चेति । यश्चरण उभयतः पापविद्धस्तस्मिन् चरणे पाणिग्रहाद्विधवा भवति ॥७॥ अत्रांशकचक्रवेधसामर्थ्यमाह । अद्रयःसागरा इति । यत्र चक्रे क्रूरवेधे पर्वताद्या अपि नश्यति । तत्र मनुष्यादीनां का वाौते । सर्वतोभद्रशतपदांशकेषु त्रयेषु यस्य वर्णादिपंचकं विद्धं तत् पर्वतादि नष्टमवश्यं भवाते ॥ ८॥ चंद्रऋक्षांशक इति । चंद्रो नक्षत्रचरणस्थ एव कार्यकाले अंशं वेधयति। तस्मिन्नंशे यद्यपरग्रहस्य वेधो भवति तदा तदिने तहक्षपादं शुभकर्मणि वर्जयेत् ॥९॥इति श्रीहरिवंशमहादेवविरचितायां जयलक्ष्म्यां स्वरोदयटीकायामंशचक्रं समाप्तम्।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com