SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ( ७४ ) नरपतिजयचर्या aagवेव इति पंचधा जातः वकारात्परः ककारस्तस्य पंचस्वरसंयोगे ककिकुकको पंच ककाराः । ककारात्परो हकारः पंचस्वरसंयोगे हहिहुहे हो पंचधा जाताः । हकारात्परस्य डकारस्य पंचस्वरसंयोगे डडिडुडेडो पंचधा जातः । एवं कृते अवकहडादीनां पंचविंशतिसंख्या जाता २५ एवं मटपरतादीनामाग्नेयादिस्थितानां पृथक् पृथक् पंचविंशतिः २५ स्वरवर्णसंयोगात्संख्या जायते तत्कृते शतसंख्या भवति वर्णानां १०० कुषुभुदुस्थान इति । कुवर्णस्य घङछास्त्रयो वर्णा देयाः पुवर्णस्य स्थाने षणठाः । भुवर्णकोष्ठे धरूढाः । दुवर्णस्य स्थाने थझाः । एवं कृते तृतीयपदचक्रवर्णा जायंते ॥ ४ ॥ श्लोकेनाह । कुधङच्छ भवेदिति ॥ ५ ॥ ऋक्षे पूर्वाभुधफढं स्तंभे नैर्ऋत्यगोचरे ॥ दुथझञास्तथा वायौ स्तंभ उत्तरभाद्रके ॥ ६ ॥ आर्द्रा हस्तस्तथाषाढ पूर्वोत्तरपदाभिधे ॥ एवं स्तंभचतुष्कं च ज्ञातव्यं स्वरवेदिभिः ॥ ७ ॥ धिष्ण्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः ॥ साभिजित्यंशका - स्तस्य शतैकं द्वादशाधिकम् ॥ ८ ॥ यदृक्षांशक कोष्ठस्थः करः सौम्योपि वा ग्रहः ॥ ततस्तद्वेधयत्तिर्यक् पुंसो नामाद्यमक्षरम् ॥ ९ ॥ सौम्यवेधे शुभं ज्ञेयमशभं पापखेचरैः ॥ मिश्रैर्मिश्र फलं तत्र निर्वेधेन शुभाशुभम् ॥ १० ॥ ऋ पूर्वेति ॥ ६ ॥ आर्द्राहस्तेति । एवं स्तंभचतुष्कमिति । पूर्वपदं च उत्तरपदं च ते पूर्वोत्तरपदे ते प्राकू यस्याषाढस्य ते पूर्वाषाढोत्तराषाढे नक्षत्रे एतचतुष्कं स्तंभनक्षत्रं सर्वत्र बोद्धव्यम् । कोटादिस्थानचके ॥ ७ ॥ अथ द्वादशाधिकशतैर्वणैः किं कुर्या - दित्याह । धिष्ण्यानि कृत्तिकादीनीति । अइउएओवविवुवेवोककिकु के कोहहिहु हेहोडडि डुडेडो। एषां पंचविशतिवर्णानां चतुर्भिश्चतुर्भिर्वर्णैः कृत्तिकादीनां चरणाः कल्प्याः । तच्चरणा एवांशकाः । तत्र अइउएवर्णाश्चत्वारः क्रमेण कृत्तिकाचरणाः । ओवविवुवर्णा रोहिणीचरणाः । वेवोकाकिवर्णा मृगशिरश्चरणाः । पश्चात् कुवर्णस्य घङच्छा वर्णा दत्ताः । तैश्चतुर्भिर्वणैरार्द्रा नक्षत्रस्य चरणाः । केकोहहि पुनर्वसुचरणाः । हुहेहोडवर्णाः । पुष्यचरणाः । डिडुडेडो आश्लेषायाः । एवं दक्षिणादिदिकस्थितैर्वणैस्तं भर्क्षवर्णसहितैर्मवादीनां नक्षत्राणां साभिजितां चरणाः कल्पिताः सन्ति ऋक्षपादवर्णा एवांशकाः शतपदचक्रे स्वस्वकोष्ठे स्थिताः सन्ति ॥ ८ ॥ संचारवशात् तत्रस्थे पापभे फलमाह । यदृक्षांशक कोष्ठस्थ इति । पुंसो नामाद्यमक्षरमित्युपलक्षणम् । मनुष्यादिसर्वसत्त्वदेशादीनामाद्यमक्षरं वेधयेत् ॥ ९ ॥ सौम्यवेधेति । निर्वेधे शुभाशुभं न भवतीत्यर्थः ॥ १० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy