SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) नरपतिजयचर्या शुभसंख्या ३ ६अथाशुभपक्षे योगस्वर उकारस्तद्वशात् द्वादशवार्षिकस्वर इकारो मृतः तस्य संख्या ४ पिंडस्वरो नकारस्तद्वशात् वार्षिक इकारो वृद्धस्तस्य संख्या ४ अंतरोदये उकारः स तु मृतः तस्य संख्या ४ऋस्वरः अकारः अंतरस्वरोदय उकारो मृतस्तस्य संख्या४राशिस्वर उकारस्तद्वशात् ऋत्वंतरो वृद्धस्तस्य संख्या ४ ग्रहस्वर उकारस्तद्वशात् पक्षस्वरो नृपांतरोदयौ मृतौ तत्संख्या अष्टौ ८ एवमशुभसंख्या अष्टाविंशतिः२८शुभसंख्या ३६ शुभाशुभयोरंतरे शुभपक्षस्य शेषं शुभसंख्या ८ विंशत्या ताडिते शेषे चतुःषष्टिः ६४ विभाजिते । अनया प्रक्रियया गुणिते जातम् १६० चतुःषष्ट्या ६४ लब्धं २ । ३२ पादार्द्धं शुभं फलम् । किं तच्छुभफलं तद्विचार्य लिख्यते । कविना नोक्तम् । शुभपक्षे युवाद्वादशाब्दांतरोदयः । मासस्वरो युवा । अंतर्द्दशायुवादीनांतरोदयनाडीस्वरयुवा नाड्युदयापि युवा अंतरोदयोपि शुभपक्षे यूना स्वराः पंच यूनां ये निसर्गबलिनस्ते ग्राह्याः तत्र योगस्वरान् यथोत्तरवलिना नाडीस्वरो नाडीस्वरस्य अधिपतिर्मात्रास्वरः । मात्रायां स्त्रीजनात्फलं वदेदिति ग्रंथकारः । देवदत्तस्य चैत्रशुक्लप्रतिपदि आरंभसमये सार्द्धपंचघटीषु शुभफलं भविष्यतीति पादार्द्धं किं तच्छुभफलम् । आकांक्षा अपूर्णैव स्थिता । अथास्य शास्त्रस्य परमप्रयोजनं दिग्विजयिनां राज्ञां विजयः । यैर्यैर्भूबलादिभिर्विजयो भवति चातुरंगसंग्रामं जयति । यानि भूवलान्यावश्यके न गृह्याणि तान्यस्मिन्नेव स्वरोदये अंतरांतरोक्तानि एकत्रकृत्वाऽनुभूतानि लिख्यते । प्रथमतो नामवर्णबलात् यद्यपि मात्रादयः स्वरा उक्तास्तथापि तेषां वर्णस्वर एव प्रधानः मात्रादयो राज्ञां द्वादशवर्षाभ्यंतरे दिनफलकथनार्थं कथिताः । तथा च स्वरोदयकारेणैवोक्तम् वर्णस्वरसामर्थ्यम् 'सर्वकालं बली वर्णः' इति । द्वंद्वयुद्धार्थे चापि वर्णस्य सामर्थ्यमुक्तम् । तथा च ककारादि इति इत्यादिना द्वंद्वयुद्धे वर्णस्वरबलादेव जय उक्तः। अथादौ पंचस्वराणां दिग्बलं ग्राह्यम्। पूर्वस्मिन्नस्वर स्वामी इति । यस्यां दिशीति । विशेषत इत्यंतम् । अथान्यत्स्वराणां बलं मृतो वृद्धस्तथाबाल इति । यो यस्येति । मृत्युहनेति एकमात्रेति पारगैरित्यन्तम् । अथान्ययुद्धे बलाबलम् । शत्रोमृत्युः स्वरेति नान्यथेत्यंतम् । अथ द्वंद्वयुद्धे बालादिपंचस्वराणां बलाबलम् । मृतो बालस्तथेति एकत्र तिथिवारक्षैः कुमारैस्तरुणस्वरैः यद्दिने जयदा त्याज्या बालवृद्धांतिमस्वराः । अन्यद्बलाबलम् प्रमाणनामवर्णैक्यमिति । कुमारयुवयोर्यायीति । “प्राकृ क्षेत्रगो भवेद्यायी पश्चाद्गामी स्थिरः स्मृतः । प्राग़ घाती चापि यायी स्यात्पश्चाद्वाती परः स्मृतः। यायी काले जयं यायी लभते नात्र संशयः । स्थायी स्थिरेऽन्यथा हानिं स्वकालादितरेतरैः। पूर्वादिदिक् स्वरगतः सुखं यूनि जयो भवेत् । जयः सघातः स्यादाद्यः शेषयोरजयो भवेत्” । अथान्यद्बलम् । “पृष्ठेऽर्के पुरतश्च्छाया दक्षिणेऽकेंथ वामगा । जयी यायी वहत्यकें जयी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy