________________
नरपतिजयचर्या
( २८२ )
रंजितानि स्ववर्णैश्च गंधधूपादिभिस्तथा॥दीपाक्षतादिभिः सम्यक् पश्चादावाहयेद्रहान् ॥ १७ ॥
रंजितानीति आवाहयेत् तत्तन्मंत्रैरित्यर्थः । तेषां मंत्राः। ॐ आदित्याय काश्यपेयाय अदितिसूनवे दिव्यमूर्तये यज्ञोपवीतमाल्यधराय अणिमाद्यष्टगुणसंयुक्ताय धीमयाय जगच्चक्षुषे सर्वलोकपूजिताय इदमर्चनं गृहाण इत्यावाह्येति मंत्रेण पूजयेत् । इति सूर्यमंत्रः॥ ॐ सोमाय यज्ञोपवीतमाल्यधराय महेश्वरजटामुकुटवासिने ममाच गृहाण शांतिं कुरु स्वाहा ॥ इति चंद्रमंत्रः। ॐ अंगारकाय भूमिपुत्राय दिव्यमूर्त्तये रक्तवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममार्चनं गृहाण शांतिं कुरुकुरु स्वाहा इति कुजमंत्रः । ॐ बुधाय चंद्रपुत्राय दिव्यमूर्तये हेमाभरणाय यज्ञोपवीतमाल्यधराय ममा । इति बुधमंत्रः । ॐ बृहस्पतये दिव्यमूर्तये देवगुरवे पीतवस्त्राभरणधराय यज्ञोपवीतमाल्यधराय ममा० । इति गुरुमंत्रः । ॐ शुक्राय धवलवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममा० । इति शुक्रमंत्र: ॐ शनैश्वराय दिव्यमूर्तये महारौद्राय कृष्णवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममा० । इति शनिमंत्रः। ॐ राहवे सैंहिकेयाय दिव्यमूर्तये विषदुष्टमुखाय रक्तदृष्टये सर्गग्रहाय कृष्णवर्णायाधऊर्द्धव्यापिने कृष्णवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममार्चनं० इति राहुमंत्रः । ॐ केतुभ्यः एकोत्तरशतेभ्य आदित्यसम वर्णरूपवस्त्राभरणेभ्यो यज्ञोपवीतमाल्यधरेभ्यो ममार्चनं गृह्णीत शांतिं कुरुतकुरुत स्वाहा । इति केतुमंत्रः ॥ १७॥ अथ स्तोत्रम् ॥ बंधकपुष्पसंकाश रक्तोत्पलसम प्रभो ॥ लोकनाथ जगदीश शांतिं यच्छ प्रभाकर ॥ १८ ॥ शंखकुंदमणालाभ काशपुष्पसमद्युते ॥ शशांक रोहिणीभर्त्तः सदा शांतिं प्रयच्छ मे ॥ १९ ॥ पृथिवीगर्भसंभूत बंधुजीवसम प्रभो ॥ शांतिं ददातु मे नित्यं कुमारांगारक प्रभो ॥ २० ॥ शिरीषपुष्पसंकाश पिपिलाशोथवा पुनः ॥ सोमपुत्रो बुधश्चैव सदा शांतिं प्रयच्छतु ॥ २१ ॥ सिंबलीकलिकाकारो भोगप्रकारकारकः ॥ केवलः कांचनाभासा आरोग्यायुःप्रदो बुधः ॥ देवमंत्री महातेजा गुरुः शांतिं प्रयच्छतु ॥ २२ ॥ सितकुंदेंदु संकाशः शुक्लवस्त्रविभूषितः ॥ शांतिं ददातु वो नित्यं दैत्यमंत्री स भार्गवः ॥ २३ ॥ नीलोत्पलदलश्यामः कृष्णांजननिभोपमः ॥ शनैश्चरग्रहः पुंसां सदा शांतिं प्रयच्छतु ॥ २४ ॥ अतसीपुष्पसंकाशो नीलांजनसमद्युतिः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com