SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ( २६८ ) नरपतिजयचर्या - हंसपादीरसैर्धृष्टः पारदो मूलसंयुतः ॥ हंसीमध्ये क्षिपेद्धीमान् मुखस्था सर्वसिद्धिदा ॥ १० ॥ ग्रहाः पीडां न कुर्वति दुष्टारिष्टं तथैव च ॥ स्थावरं जंगमं चैव विषं नश्यति तत्क्षणात् ॥ ११ ॥ इति हंसी ॥ इति यामलीये स्वरोदये कपर्दिका समाप्ता ॥ कृत्तिका च विशाखा च भौमवारेण संयुता ॥ तद्दिने घटितं शस्त्रं संग्रामे जयदायकम् ॥ १ ॥ इति यामले योगघटित शस्त्राणि ॥ अपामार्गरसेनैव यानि शस्त्राणि लेपयेत् ॥ जायंते तानि संग्रामें वज्रसाराणि निश्चितम् ॥ १ ॥ इति शस्त्ररक्षा ॥ विद्युत्पातमृतास्थीनि पेषयेत्करकांबुना ॥ अनेन लेपनं कुर्यात् सनाहफलकेपि वा ॥ २ ॥ तत्र लग्नानि शस्त्राणि त्रुटंति च नमंति च ॥ न भिदंति शरीराणि पुष्पाणीव मृदूनि च ॥ ३ ॥ इति यामले शस्त्रमोटनम् ॥ कृष्णसर्पशिरांस्यष्टौ विषं पंचपलानि च ॥ छुछुदरीवसाष्टौ च तथाच गृहगोधिका ॥ १ ॥ कृष्णस्य वृश्चिकस्याष्टौ कपिकच्छूः पलाष्टकम् ॥ द्वे पले हरितालस्य कृकलासरसः पलम् ॥ २ ॥ लांगलीकरवीराभ्यां त्रीणि त्रीणि प्रकीर्तिताः ॥ एतेषां शोधितं कल्कं भल्लातकसमायुतम् ॥३ ॥ सर्वेषामेव शस्त्राणां लेपोयं समुदाहृतः॥ विद्धास्तु तैर्ये मनुजास्त्यजंते जीवितं ध्रुवम् ॥ ४ ॥ रक्तकंचुकया नारी रक्तप्रावरणा च या ॥ नटदारुसमायुक्ता पर्वतानपि साधयेत् ॥ ५ ॥ गृहीत्वा मक्षिकां नीलां षड्बिंदुकीटकान्विताम् ॥ शस्त्रलेपेन घाताद्धि जायंते कीटका बणे ॥ ६ ॥ इति स्वरोदये शस्त्रलेपः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy