SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२६७ ) ताम्रपात्र न संशयः॥ ३९ ॥ सर्वांस्तानेकतः कृत्वा मुखमध्यस्थिता भवेत् ॥ गुटिका जायते रम्या नानी वांगसुंदरी ॥४०॥ मुखस्था सिद्धिदा प्रोक्ता जरामृत्युविनाशिनी ॥ संग्रामे विजयी वीरो वज्रदेहो महाबलः ॥ ४१ ॥ सर्वलोकप्रियो नित्यं नारीणां वल्लभस्तथा ॥ गुटिकेयं समाख्याता यथोक्ता ब्रह्मयामले ॥ ४२ ॥ इति वनांगसुंदरी गुटिका ॥ सिंही व्याघी मृगी हंसी चतुर्धे कपर्दिका ॥ एतासां लक्षणं वक्ष्ये प्रभावं च यथाक्रमम् ॥ १॥ सिंही सुवर्णवर्णा च व्याघी धूम्रा सरेखिका ॥ मृगी तत्र विजानीयात्पीतपृष्ठी सितोदरी ॥२॥ हंसी जलतरा श्वेता विदंता नातिदीर्घिका ॥ एवं विशेषान्विज्ञाय ततः कर्म समाचरेत् ॥३॥ औषधी सिंहिका नाम तस्य मूलस्य यो रसः ॥ सिंही कपर्दिका मध्ये क्षेप्यस्तन्मूलसंयुतः ॥४॥ पिधाय वदनं तस्याः सिक्थेन च समन्वितः ॥ अस्यां वक्र. स्थितायां तु सिंहवज्जायते नरः ॥ ५॥ मदोन्मत्ता गजास्तस्य दर्शनेन पराङ्मुखाः ॥रणे राज ले द्यूते विवादे चापराजितः ॥६॥ इति सिंही॥ व्याघीरसेन संघृष्टः पारदो मूलसंयुतः॥ पूर्ववत्साधयेद्वयानी फलं चैव तथाविधम् ॥ ७॥ इति व्याघ्री॥ मृगसूत्रेण संभिन्ना मृत्तिका रससंयुता ॥ मृगधिष्ण्ये क्षिपेन्मृग्यां तस्याः फलमतः शृणु ॥८॥ मुखमध्ये स्थितायां च वशी भवति मानवः॥ रतिकाले मुखस्थायां बालाप्राणहरो नरः॥९॥ इति मृगी॥ १ मृगमूत्रेण इति पा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy