________________
जयलक्ष्मीटीकासमेता। असावेव उदयाततःप्रमाथिनामासंवत्सरस्तदारभ्य द्वादशसंवत्सरैः इकार उदयति तेन किंतावदिकारस्वरोधिपतिः खरनंदादिद्वादशसंवत्सरैरुकारस्वर उदयति तावदुकारोराजा। ततः शोभनसंवत्सरप्रभृतिद्वादशसंवत्सरेरेकारस्वर उदयाति:तेन किं तावदेकारस्वरोराजा। अथ राक्षससंवत्सरादिद्वादशसंवत्सरैरोकारस्वर उदयति तेन किं तावदोकार एव राजा। अत्रोदाहरणम्।संवत् १५७२समये शाके १४३७एतावद्य प्रभवादयोगताब्दान्तेषामानयनं रत्नमालासंहितासु प्रोक्तम्।तथाच शकेंद्रकालाः पृथगाकृति२२नःशशांकनंदाश्वियुगैः ४२९१ समेतः॥शरादिवास्वंदु १८७५ हृतः स लब्धः षष्टयावशेषे प्रभवादयोऽब्दा"। अनेन गणितविधिना प्रभवादयः प्राप्ताः वर्ष १९ मास १ दिन २५ घटी ५ पल ३० एतावत्संवत्सराः शाके १४३७समये चैत्रशुक्लप्रतिपदि प्राप्ताः । एषां द्वादशवर्ष १६।१। २३॥४५॥३६पर्यंतमकारोधिपतिरासीत् सांप्रतं प्रमाथिनामसंवत्सरमारभ्य द्वादशसंवत्सरावधिःइकारस्वर ईश्वरो वर्तते एतेन किं देवदत्तनामोदाहरणे नामतः पिंडस्वराख्य उकार उदितोस्ति तदुदयबलापिंडस्वरोदयोक्तकर्मसिद्धिं यास्योत। अथ वर्तमानप्रमाथिनामादिद्वादशवर्षदशासु इकारात्मभृति अंतर्दशास्वराणां भुक्तभोग्यस्वरांतर्दशाकालप्रमाणमाहाअस्यांतरोदयेतिावर्षश्मासदिनरघटी४३५०३८एतैर्वर्षादिभिःद्वादशसु उदयस्वरान् अंतर्दशास्वरावार्षिकचक्रम्।अथ प्रभवादीनां संवत्सराणां प्रत्येकमन्तर्दशासु भोगमतावदीश्वरः अंतर्दशाविभागकरणं दिनचर्यायां लेख्यम्॥२॥३॥इति द्वादशवार्षिकचक्रम् ॥
प्रभवाद्यब्दमेकैकमुदयस्त्वस्वरादिकः॥ ॥वार्षिकस्वरचक्रम्।। द्वादशाब्दस्य वर्षोना तद्भक्तिर्वार्षिके । स्वरे ॥१॥ इति वार्षिकस्वरचक्रम् ॥ |
अथ प्रभवादीनां संवत्सराणां प्रत्येकमस्वराधिपती-प्रव शुभ नाह । प्रभवाद्यब्दमेकैकेति । अकारादिकाः पंचस्वराः मामा मारमा १ मार! प्रभवाद्यन्दमेकैकं प्रति उदयो भवति। कोर्थः प्रभवादीनां - प्रत्येकम् अस्वरादिकः स्वामी भवति । तथा उदाहरणम् । प्रभवे वर्तमाने अकारस्य उदयः। विभवे वर्तमाने इकारस्योदयः । शुक्लनाम्नि वर्तमाने उकारस्योदयः। प्रमोदनानि वर्तमाने एकारस्योदयः । प्रजापतिनाम्नि वर्तमाने ओकारस्वरोदयः । एवं षष्टयब्देषु प्रवर्तमानेषु अकारादयः पंचस्वरा द्वादशधा उदयांत । तत्र अकाराचैकस्वरोदये एकादशस्वराणामुदयः स्यात् । एतदुक्तं भवति । प्रभवाद्येकैकवर्षदशासु प्रभवादिपतिः स्वरांतैकादशस्वराणामंतर्दशा स्यात् स एवोदयः । अथांतर्दशादेयकालमाह द्वादशाब्दस्यति । द्वादशाब्ददशास्वराणां भुक्तिवर्षमेकं मासमेकमित्यादि ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com