SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मी टीकासमेता । ( १६९ ) आदित्ये बहुवातं च भूमिजे शत्रुपीडनम् ॥ बुधे चैव तु दुर्भिक्षं शनिवारे महद्भयम् ॥१॥ सोमे शुक्रे गुरौ वापि सुभिक्षं जायते ध्रुवम् ॥ उदयं भार्गवे चैत्रे वज्रिराजव्यवस्थिते ॥ २ ॥ वैशाखे च भवेन्नाशो सर्वनाशं चतुष्पदम् ॥ ज्येष्ठे च सजला पृथ्वी आषाढे जलशोषके ॥३॥ श्रावणे कम्पिता भूमौ धनधान्यं नभस्यके ॥ आश्विने कार्तिके मार्गे सहितं च प्रवर्तते ॥ ४ ॥ पौषे चैव तथा माघे राष्ट्रभंग विनिर्दिशेत् ॥ फाल्गुने अल्पवृष्टिश्च उदयास्तं भृगोः फलम् ॥ ५ ॥ इति उदयास्तफलानि ॥ उदयास्तफलम् ॥ आदित्येति ॥ १॥२॥३॥४॥५॥ उदयास्तफलानि शुक्रद्वाराणि ॥ भरण्याष्टम्यऋक्षाणि मेघद्वारं प्रकीर्तितम् ॥ प्रभूतं वर्षते मेघः सुभिक्षं जायते ध्रुवम् ॥ १ ॥ मघादि पञ्च ऋक्षाणि वायुद्वार प्रकीर्तितम् ॥ उन्नता चैव मेघाश्च न वर्षन्ति कदाचन ॥ २ ॥ स्वात्यादित्रीणि ऋक्षाणि धर्मद्वारं प्रकीर्तितम् ॥ सुभिक्षं क्षेममारोग्यं बहुवृष्टिश्च जायते ॥ ३ ॥ ज्येष्ठादि पञ्चऋक्षाणि रेतद्वारं प्रकीर्तितम् ॥ उन्नता अल्पमेघाश्च अल्पसौम्यञ्च जायते ॥४॥ धनिष्ठादिषडृक्षाणि हेमद्वारं प्रकीर्तितम् ॥ सुभिक्षं जायते सर्व मेघा वर्षति तु ध्रुवम् ॥५॥ इति स्वरोदये शक्रद्वाराणि ॥ भरणीति ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ इति शुक्रद्वाराणि ॥ अतिवातं च निर्वातमत्युष्णं शीतशीतलम् ||अत्यभ्रं च निरभ्रं च षड्विधं मेघलक्षणम् ॥ १ ॥ यावत् काकोदरा मेघा यावत्सर्यः शशीसमः ॥ यावन्नैर्ऋतिको वायुस्तावद्देवो न वर्षति ॥२॥ चित्रास्वातिविशाखासु श्रवणेति जलं तथा ॥ तदा तुल्यादिकं कृत्वा नदीतीरे उपासनात् ॥ ३ ॥ श्रवणे स्वातिपञ्चम्यामस्तं याति दिवाकरः । अवृष्टिर्यदि पर्जन्यो जलसादपि सर्वथा ॥४॥ उदयं सोमजो याति चास्तं याति भृगोः सतः ॥ श्रावणे चैत्रमासे तु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy