SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ (८) नरपतिजयचर्यालग्नमान ततो होरा द्रेष्काणं सप्तमांशकम् ॥ नवांशद्वादशत्रिंशदुदयास्तांशकानपि ॥ ६६ ॥ तिथेः प्रकरणं वक्ष्ये वारनक्षत्रयोस्तथा ॥ योगाख्यं करणाख्यं च मुहर्त संक्रमोद्भवम् ॥ ६७ ॥ चंद्रताराबलं चैव पक्षभेदेन संयुतम् ॥ शुभाशुभांश्च योगांश्च तिथिवारक्षयोगजान् ॥ ६८ ॥ सिद्धं संवर्तकं चैव तथा वारशुभाशुभम् ॥अवमं त्रिदिनं वक्ष्ये ततो योगं त्रिपुष्करम् ॥६९॥यमघंटे यमदंष्ट्रां क्रकचार्गलपातकान् ॥ कुमारं तरुणं वृद्धं शूलानि शुलयोगिनीम् ॥ ७० ॥ लग्नमानमिति ॥ ६६ ॥ तिथिप्रकरणमिति ॥ ६७ ॥ चंद्रताराबलमिति ॥ ६८ ॥ सिद्धं संवर्तकमिति ॥ ६९ ॥ यमघंटमिति ॥ ७० ॥ वारशूलं तथा कालं कालवेलां परिस्फुटाम् ॥ कालहोरार्धयामं च कुलिकं कंटकद्वयम् ॥ ७१ ॥ फलं ग्रहणधिष्ण्यस्य वत्सभागवयोः फलम् ॥ दशां चांतर्दशां स्थूलां वक्रातिचारयोः फलम्।। ॥ ७२ ॥ पीडास्थानानि खेटानां ग्रहावस्थास्तथैव च ॥ भावफलं संधिफलं लत्तावधमुपग्रहान् ॥ ७३ ॥ शीघ्रवक्रग्रहोदेशं गोचरं गोचरव्यधम्॥विवाहं च प्रतिष्ठां च दीक्षायात्राप्रवेशनम् ॥ ७४ ॥ वास्तुदीपोच्चविन्यासं कालविंशोपकास्तथा ॥ जलयोगार्घकांड च वर्षमासदिनाघकृत् ॥ ७५ ॥ वारशूलमिति ॥ ७१ ॥ फलं ग्रहेति ॥ ७२॥ पीडास्थानोत ॥ ७३ ॥ शीघ्रवक्रेति ॥ ७४ ॥ वास्तुदीपोचेति ॥ ७५ ॥ तिथ्यादिपंचकं ग्राह्यं चंद्रतात्कालसंभवम् ॥ अवस्थानष्टमुष्टिं च लूकां चंद्राद्वदाम्यहम् ॥७६॥ अंगस्पंदानि सर्वाणि कालचिहानि यानि च ॥ दुष्टारिष्टान्यहं वक्ष्ये तथा शेषां च शांतिकम्॥ ॥७७ ॥ ज्योतिरंगमिदं सर्व ये जानंति मनीषिणः ॥ दीपवत्तान्विजानीयान्मोहांधकारनाशने ॥ ७८ ॥ इति ज्योतिषम् ॥ सर्व ये जाननाच शांतिकमा वजानीया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy