________________
(८)
नरपतिजयचर्यालग्नमान ततो होरा द्रेष्काणं सप्तमांशकम् ॥ नवांशद्वादशत्रिंशदुदयास्तांशकानपि ॥ ६६ ॥ तिथेः प्रकरणं वक्ष्ये वारनक्षत्रयोस्तथा ॥ योगाख्यं करणाख्यं च मुहर्त संक्रमोद्भवम् ॥ ६७ ॥ चंद्रताराबलं चैव पक्षभेदेन संयुतम् ॥ शुभाशुभांश्च योगांश्च तिथिवारक्षयोगजान् ॥ ६८ ॥ सिद्धं संवर्तकं चैव तथा वारशुभाशुभम् ॥अवमं त्रिदिनं वक्ष्ये ततो योगं त्रिपुष्करम् ॥६९॥यमघंटे यमदंष्ट्रां क्रकचार्गलपातकान् ॥ कुमारं तरुणं वृद्धं शूलानि शुलयोगिनीम् ॥ ७० ॥
लग्नमानमिति ॥ ६६ ॥ तिथिप्रकरणमिति ॥ ६७ ॥ चंद्रताराबलमिति ॥ ६८ ॥ सिद्धं संवर्तकमिति ॥ ६९ ॥ यमघंटमिति ॥ ७० ॥ वारशूलं तथा कालं कालवेलां परिस्फुटाम् ॥ कालहोरार्धयामं च कुलिकं कंटकद्वयम् ॥ ७१ ॥ फलं ग्रहणधिष्ण्यस्य वत्सभागवयोः फलम् ॥ दशां चांतर्दशां स्थूलां वक्रातिचारयोः फलम्।। ॥ ७२ ॥ पीडास्थानानि खेटानां ग्रहावस्थास्तथैव च ॥ भावफलं संधिफलं लत्तावधमुपग्रहान् ॥ ७३ ॥ शीघ्रवक्रग्रहोदेशं गोचरं गोचरव्यधम्॥विवाहं च प्रतिष्ठां च दीक्षायात्राप्रवेशनम् ॥ ७४ ॥ वास्तुदीपोच्चविन्यासं कालविंशोपकास्तथा ॥ जलयोगार्घकांड च वर्षमासदिनाघकृत् ॥ ७५ ॥
वारशूलमिति ॥ ७१ ॥ फलं ग्रहेति ॥ ७२॥ पीडास्थानोत ॥ ७३ ॥ शीघ्रवक्रेति ॥ ७४ ॥ वास्तुदीपोचेति ॥ ७५ ॥ तिथ्यादिपंचकं ग्राह्यं चंद्रतात्कालसंभवम् ॥ अवस्थानष्टमुष्टिं च लूकां चंद्राद्वदाम्यहम् ॥७६॥ अंगस्पंदानि सर्वाणि कालचिहानि यानि च ॥ दुष्टारिष्टान्यहं वक्ष्ये तथा शेषां च शांतिकम्॥ ॥७७ ॥ ज्योतिरंगमिदं सर्व ये जानंति मनीषिणः ॥ दीपवत्तान्विजानीयान्मोहांधकारनाशने ॥ ७८ ॥ इति ज्योतिषम् ॥
सर्व ये जाननाच शांतिकमा
वजानीया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com