________________
(१३२)
नरपतिजयचर्याकवर्ग नवधाऽऽलिख्य कोष्ठ के प्रथमेष्टकेत्येवं प्रक्रियया एषामपि संप्रदाय इत्येवं भासते । तत्रादौ चराणामाद्यक्षराणि कलत्रफ स्थिराणां पघषज द्विस्वभावानां छभखय एतदादीन्यक्षराणि चरादिराशिषु ज्ञेयानि ॥ १ ॥२॥ ३ ॥ इति नामसाधनम् । अथान्यत्संप्रवक्ष्यामि तत्कालेंदुपरिस्फुटम् ॥ येन विज्ञायते सर्वं त्रैलोक्यं सचराचरम् ॥१॥ लाभालाभौ सुखं दुःखं जी. वितं मरणं तथा ॥ जयं पराजयं संधि समागमविनिर्णयः॥२॥ लूका चिंता तथा मुष्टी राजावस्थादिकौतुकम् ॥ एतत्सर्वं तथा चान्यज्जायते च परिस्फुटम् ॥३॥ शिलातलेंबुसंशुद्धे वज्रलेपे समेथ वा ॥ स्वबुद्धया समभूम्यां वा स्फुरत्यत्र यथामति ॥४॥ क्रियते वलयाकारं चक्रं कर्कटकेन च ॥ विभागः परिधौ पश्चास्क्रियते राशिमानतः ॥ ५॥ कुर्यात्तेषु समं भागं नवधा नवधा पुनः॥ एवं कृते भवंतीह शतमष्टाधिकं गृहाः ॥६॥ द्वादशारं भवेच्चक्रं मेषादिद्वादशान्वितम् ॥ अस्वराद्याः स्वरा देया राशिवेधा भवंत्यमी ॥७॥प्रस्तारचक्रलिखितान्वर्णान् राशिनवांशकात् ॥ अन्योन्यं वेधयेद्वर्णान् सुमती रज्जुरेखया॥८॥
अथ मुरजाख्यतुंबुर्वावर्तः । रज्जुवेधोपि तुंबुर्वावर्तः । अथेति । सुगमम् ॥१॥ लाभालाभोत ॥२॥३॥अथ रज्जुवेधमुरजवेधकरणार्थमुपायमाह । शिलातलेति ॥ ॥४॥५॥ ६॥७॥८॥ एकद्विव्यादिकानंकॉल्खेिद्वानपि क्रमात् ॥ प्रथमे नवमे वेधो द्वितीये सप्तमे तथा ॥९॥ तृतीये पंचमे राशौ राशौ षष्ठचतर्थके ॥ पंचमे पंचमे राशौ द्रेष्काणे च नवांशके ॥ १० ॥ अजवृषमिथुनकुलीराः पंचमनवमैः सहेंद्राद्याः ॥ त्रिकोणराशयः प्रोक्ता मेषसिंहहयादिभिः ॥११॥ आद्य १ द्वि २ वह्नि ३ तुर्याशा ४ नवा ९ष्ट ८ नग ७ ष ६ मिथः ॥ वेधयंतस्त्रिकोणे तु पंचमं पंचमांशकः ॥ १२ ॥ द्रेष्काणेऽप्यंशवेधोयं रजौ मुरजबं. धने ॥ तंबुरे तुंबुरावर्ते विज्ञेयः स्वरपारगैः ॥ १३॥ प्रथमेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com