________________
श्रीः।
अथ नरपतिजयचर्या।
जयलक्ष्मीटीकोपेता।
श्रीगणेशाय नमः। नतिं कृत्वा गणेशाय विघ्नविध्वंसकारिणे । निर्विघ्नकृतिसार्थाय कमलापतये नमः ॥ १॥ मोहांधकारमग्नानां जनानां ज्ञानरश्मिभिः । कृतमुद्धरणं येन तं नौमि शिवभास्करम् ॥ २ ॥ हरिवंशकविः स्वार्थ परार्थ च स्वरोदयम् । व्याख्यानं मात्रिकादीनां स्वराणां नामजन्मनाम् ॥ ३ ॥ गुरुभ्यो बहुधा श्रुत्वा यथा ज्ञानं यथा धिया। जयलक्ष्मीरित मया टीका राज्ञी विरच्यते ॥ ४ ॥ अथ कविरानंदस्वरूपं ब्रह्म नमस्करोति ।
श्रीगणेशाय नमः॥अव्यक्तमव्ययं शांतं नितांतं योगिनां प्रियमा सर्वानंदस्वरूपं यत्तद्वंदे ब्रह्म सर्वगम् ॥ १ ॥ विविधविबुधवंद्यां भारती वंदमानः प्रचुरचतुरभावं दातुकामां जनेभ्यः॥ नरपतिरिति लोके ख्यातनामाभिधास्ये नरपतिजयचर्यानामकं शास्त्रमेतत॥ २ ॥ कृते जयार्णवं नाम त्रेतायां ब्रह्मयामलम् ॥द्वापरे विजया ख्यातं कलौ चैव स्वरोदयः ॥३॥ ब्रह्मयामलमादौ स्याद् द्वितीयं विष्णुयामलम् ॥ रुद्रयामलमाख्यातं चतुर्थ चादियामलम् ॥४॥ स्कंदं च यामलं चैव षष्ठं कूर्मस्य यामलम् ॥ सप्तमं यामलं देव्या इति यामलसप्तकम् ॥ ५॥ श्रुत्वादौ यामलान्सप्त तथा युद्धजयार्णवम् ॥ कौमारी कोशलं चैव योगिनीजालसंचरम् ॥ ॥६॥ रक्षोघ्नं च त्रिमुंडं च स्वरसिंह स्वरार्णवम् ॥ भूबलं भैरवं नाम पटलं स्वरभैरवम् ॥७॥ तंत्र रणाह्वयं ख्यातं सिद्धांतं जयपद्धतिम् ॥ पुस्तकेंद्रं च ढोकं श्रीदर्शनं ज्योतिष तथा॥ ८॥ मंत्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com