________________
भूमिका.
२५
1
रूयायमानं किमपि पुण्यक्षेत्रम्, अत्रार्चारूपेण सन्निहितः शङ्करो गङ्गाधर इत्याख्यया पार्वतीच वर्णाम्बाख्यया ख्यायते । इदंच क्षेत्रं कर्णाटकदेशे ( महीशूरराज्ये ) बेंगलूरनगरसमीपे वर्तते । नूतनपुरी-इयंच नगरी होसूरिति नाम्ना ख्यायते । इयंच बेंगलूरनगरस्य पूर्वस्यां दिशि प्रायो विंशतिक्रोशव्यवहिते प्रदेशे वर्तते । अस्याः समीपे प्रवहति दक्षिणपिनाकिनी —— सेयं नन्दीदुर्गतो दक्षिणस्यां दिशि प्रवहति, तत उच्यते दक्षिणपिनाकिनीति । भद्रगिरिः - अयं तु गिरिर्नूतनपुर्याः परिसरप्रदेश एव वर्तते, अत्र शिवालयः कश्चन महान् वर्तते । अस्मिन्नालये सुप्रतिष्ठितस्य भगवतः परमेश्वरस्य चूडेश्वर इत्यभिख्या, भवान्याश्च मरकताम्बेति । दोड्डरायसमुद्राग्रहार इति वीररायसमुद्राग्रहार इति चात्र निर्दिश्यमानावग्रहारौ प्रायो नूतनपुर्याः समीप एव स्याताम् । गरळपुरी— इयं नञ्जनगूडिति ख्यायते, महीशूरनगरस्य दक्षिणस्यां दिशि वर्तते । इदं महत्तरं शिवक्षेत्रम् ।
निबन्धोऽयं मद्र (मद्रास) नगरराजकीयसंस्कृत पुस्तकालयतो लब्धमशुद्धप्रायं पुस्तकमेकं सहायतयाऽवलम्ब्य समाश्रित्य च वडोदराराजकीय संस्कृत पुस्तकालयस्थं तालपत्र पुस्तकमीषदशुद्धं यथामति संशोध्य प्रकाशितम् । तत्र संशोधने प्रामादिकानि प्रस्खलनानि शुद्धिपत्रे परिहृतानि । प्रामादिकमपि प्रस्खलनं प्रस्खलनमेव ।
अथापि विदुषां चेतः परदोषपराङ्मुखम् । अल्पेनापि गुणांशेन प्रसादमुपयास्यति ॥
अपरं चेदमावेद्यते— अनेन निबन्धकारेण तत्र तत्र तत्तल्लक्षणवचनानि परकीयान्येव स्वकृतिमध्ये संग्रथ्यन्ते, न्याय्यं चैतत्, न हि लक्षणमन्यद्भवितुमर्हति तत् शास्त्रकारैः सर्वैरेव लक्षणनिरूपणसमये पूर्वपूर्ववचनान्येवोदाह्रियन्ते । किन्त्वयं प्रतापरुद्रयशोभूषणादेव च विशेषतो लक्षणवचनान्यनुवदति, तदयं नञ्जराजयशोभूषणं कुर्वन् प्रतापरुद्रयशोभूषणमेव विशेषतोऽनुस्मरति इति विज्ञायते । आकरानुक्रमणिकायामेतत् स्पष्टमुपलभ्येत । इदं चावधेयम् - ये निबन्धा आकरानुक्रमणिकायां लक्षणवचनानामन्यत्रोपलभ्यमानानामाकरतया निदर्शितास्ते तत्तदुपलब्धिस्थानतया समाहताः, तेष्वपि निबन्धे तु तन्निबन्धकारैः पूर्वनिबन्धतः समुद्धृत्योदाहृताः स्युर्नाम । एतत्कविकृतितो बहिर्भूता इत्येव तु ततो विज्ञेयम् ।
8
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पं. कृष्णमाचार्यः संस्कृतपाठशालाप्रधानपण्डितः, वडताळ
www.umaragyanbhandar.com