________________
भूमिका. (८६ ) अनुपात्तगुणनिमित्तक द्रव्याभावहेतृत्प्रेक्षा (८७) उपात्तक्रियानिमित्तक द्रव्याभावहेतृत्प्रेक्षा (८८) अनुपात्तक्रियानिमित्तक द्रव्याभावहेतत्प्रेक्षा ( ८९ ] उपात्तगुणनिमित्तक द्रव्यफलोत्प्रेक्षा (९०) अनुपात्तगुणनिमित्तक द्रव्यफलोत्प्रेक्षा (९१) उपात्तक्रियानिमित्तक द्रव्यफलोत्प्रेक्षा ( ९२ ) अनुपात्तंक्रियानिमित्तक द्रव्यफलोत्प्रेक्षा (९३ ) उपात्तगुणनिमित्तक द्रव्यभावफलोत्प्रेक्षा (९४ ) अनुपात्तगुणनिमित्तक द्रव्याभावफलोत्प्रेक्षा (९५ ) उपात्तक्रियानिमित्तक द्रव्याभावफलोत्प्रेक्षा (९६ ) अनुपात्तक्रियानिमित्तक द्रव्याभावफलोत्प्रेक्षा
इति षण्णवतयः । निमित्तस्यानुपात्तस्य क्रियात्वेन गुणत्वतः । द्वैराश्यापादकत्त्वं यद् याऽनुपात्तनिमित्तता ॥ फलहेतृत्प्रेक्षयोश्च विद्यानाथस्तु तद् द्वयम् ।
अनादृत्याह पञ्चाशत् भेदान् षडधिकानिह ॥ प्राधान्येनास्य विषयाः-प्रथमे विलासे नायकगुणा नायकभेदा नायिकाभेदाः। द्वितीये विलासे-वाचकादिशब्दभेदाः वाच्यार्थभेदाः कैशिक्यादिवृत्तिभेदाः वैदादिरीतिभेदाः ध्वनिहेतुमेदाउत्तममध्यमादिकाव्यभेदाः । तृतीये-ध्वनिभेदाः अगूढादयो गुणीभतव्यङ्गयभेदाः महाकाव्यादिलः क्षणम् । चतुर्थे-रसभेदाः स्थायिभावभेदाः विभावभेदाः अनुभावः स्तम्भादयः सात्विकभावभेदाः निर्वेदादयो न्यभिचारिभावभेदाः शृङ्गारचेष्टाभेदाः शृङ्गारावस्थाभेदाः । पञ्चमे-अवाचकादयः पददोषाः शब्दहीनादयो वाक्यदोषाः हेतुशून्यादयोऽर्थदोषाः ओजःप्रभृतयो गुणाः । षष्ठे-आरंभादिप्रकृतिकार्यावस्थापञ्चकम्, बीनादिप्रकृतिपञ्चकम्, मुखादिसन्धिपञ्चकम्, सन्धीनामङ्गभेदाः, विष्कं. भादयः सूच्यसूचनोपायाः, कथोद्धातयः प्रस्तावनाङ्गानि । सप्तमे-अनुप्रासादयः, शब्दालङ्काराः उपमादयोऽर्थालङ्काराः ।
प्राधान्येनास्य विषयानेवं दर्शयता मया । स्थूलदृष्टया दिदृक्षणां दिड्यात्रमुपदशितम् ॥ विस्तरस्तु विषयानुक्रमणिकायाम् ।
अस्मिन्निबन्धे नाटकप्रकरणे कृतिनायकनञ्जराजचरितानुबन्धितया ग्रामनमरादीनि कानिचिदुपर्वर्ण्यन्ते; तेषां स्थाननामादि विशदीक्रियते । ककुगिरिः-अयमधुना शिवगङ्गा इत्याख्यया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com