________________
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFFEFEL
FEEEEEEEEEEEEEEEEEEEL
__ नानाशास्त्रसमुत्थयुक्तिनिवहै: प्रज्ञाजुषां संसदि, । तं भव्याः! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।।
भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नास्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः।
पीत्वानन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।५।
यो दूर विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते-सदा सन्मतिम् ।
भक्त्या समुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, , तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।६।
अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधर-.. निर्घोषं विफलीकरोति वचसां घोषो महान् यस्य वै। ..
नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।
धीमाँस्तत्पदपद्मयुम्ममधुलिड् वादीमकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिर्विज्ञानिचूडामाणिः ।
विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्।।
MEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEER
कृतकर्मविनाशाय वासाय शिवसद्मनः
चतुरविजयेनैत–दकृताऽमलमष्टकम् ॥ ९॥"
3333333UUUUUUU
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com