________________
कुट्टनीमतम् ।
इति निजसेवक निगदितरामणिक्यवचनजनितपरितुष्ट्या । अन्तर्मुदितो ब्रूते मामेष खलीकरोतीति ॥ ८१ ॥ ( कुलकम् ) 'कतमत् कतमल्लग्नं प्रस्थानं, का च नर्तकी भद्रा । विटखटके का नृत्यति कोहलभरतोदितक्रियया ॥ ८२ ॥
१९
याम्। चललक्ष्यवेधनं दुष्करं कर्म, तत्र जयः । किन्तु पितुर्भयेनैव स न मृगयाक्रीडनं करोति इत्यर्थः । ] ॥ ८० ॥ [ एष: निजसेवकः प्रस्तोता । ] खलीकरोतीति नाहं तादृग्गुणः, केवलं त्वया श्लाघा क्रियते इत्यादि सौजन्येन [ विनयेन वा ] वक्तीत्यर्थः। [ अत्र रामणिक्य इति प्रयोगः चिन्त्यः । ] [ अनेन कुलकेन भट्टपुत्रः दानवीरः कलावीरः गानवीरः अहिंसावीर : - इत्यादिवीरनायकसमष्टित्वं व्याजेन सूचितम् । ] ॥ ८१ ॥ लग्नं परिज्ञातम् । प्रस्थानं नास्यादिशास्त्रदुर्गमविषयः । [ नर्तकीलक्षणं भारतीये नाट्यशास्त्रे चतुर्विंशतितमे अध्याये – “ यौवनादिगुणोन्मत्ता नृत्तगीतविचक्षणा । सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ ३३ ॥ समागतासु नारीषु रूपयौवनकान्तिषु । न दृश्यते गुणैस्तुल्या नर्तकी सा प्रकीर्तिता ॥ ३४ ॥ " इति । भद्रा श्रेष्ठा साध्वी । विटखटके विटानां खटके, खट आकाङ्क्षायां इति धातो: खटके तैः आकाङ्क्षिते द्रष्टुं अभिलषिते तत्तन्नर्तनभेदे । ] [ विलक्षणं नाट्यशास्त्रे - " वेश्योपचारकुशलो मधुरो दक्षिणः कविः । ऊहापोहक्षमो वाग्मी चतुरश्च विटो भवेत् ॥ " (२४|१०४ ) इति । ] ' शृङ्गटके का नृत्यति ' [ इति पाठे ] अप्रतिरुद्धगमनागमनस्थाने सर्वाभिज्ञजनदृष्टिगोचरेऽपि देशे अतिप्रावीण्येन अस्खलितं नर्तितुं का कुशलेत्यर्थः ; “ शृङ्गाटकचतुष्पथे ” इत्यमरः, छन्दोऽनुरोधात् [ अत्र ] मध्यहस्वत्वम् ॥ ' विटखटके ' इति पाठे खटसदृशत्वात् खटक: खटोऽन्धकूपः “ खटस्तृणे कफे । टङ्केऽन्धकूपे प्रहारे " इति हैमः; तथा च विटानां तदभिज्ञजनानां अपि इत्यर्थः, अन्धकूपवत् दुर्गमे विषयेऽपि नर्तितुमभिज्ञा केति कथञ्चिदर्थकल्पना ॥ कोहलभरतौ नाट्याचार्यौ, [ तत्र कोहल: भरतपुत्रः कोहलरहस्यकर्ता । तदुक्तं तत्रैव- “ सुखोपविष्टं वरदं कोहलं भरतात्मजम् । कृताञ्जलिपुटो भूत्वा मतङ्गः परिपृच्छति ॥ " इति । अपि च " आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं
"
८१. रामणिका ( गो ) रमणीयवचः श्रवणपरितुष्टा ( का ) [ असम्बद्ध ः पाठः ] अन्तर्मुदिता ( का ) । मामेव ( का ) । संदानितकम् ( गो. का ) ८२. कतमे क ( प ) । प्रस्थाने ( का ) । भर्ता ( का ) | शृंगटके ( गो ) पिंगटके ( प ) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com