________________
कुट्टनीमतम् ।
विस्मयलाोलतमौलि: पार्श्वगतांस्ताडयन् रसावेगात् । हा कटु साध्विति वादैरन्तरयति परसुभाषितश्रवणम् ॥ ७२ ॥ इदमुक्तो रहसि रुषा तातेन नृपो, नृपेण तातोऽपि । इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥ ७३ ॥ पत्रच्छेदमजानञ्जानन् वा कौशलं कलाविषये । प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरी सततम् ।। ७४ ।।
'ब्रह्मोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव । अभिभवति नारदादीन् प्रावीण्यं भट्टपुत्रस्य ।। ७५ ॥
अनालोकितावसरः [ अप्रस्तुतं इति यावत् , ] - (गाथां) श्लोकप्रायां । [इति पाठे] श्लोकबहुलां वृत्तगन्धि वा । [गाथा-संस्कृते या आर्या सा प्राकृते गाथा, ] भावितचेताः आनन्दपरिपोषितमनाः । [ यथातथा अशुद्धत्वेन पठति इत्यन्वय:] ॥ ७१ ॥ रसावेगात् आनन्दानुभूतिपारवश्यात् , [वादैः उक्तिभिः ] ॥ ७२ ॥ इदमिति । अनेन रहस्यालापप्रकाशनेन तातपयोः परस्परं सौहार्दातिशयं बोधयति, [तेन अस्य स्वतः पराक्रमशून्यत्वं व्यज्यते ] ॥७३॥ पत्रच्छेदः [पत्रच्छेद्यं नाम कलाविशेषः, येन भूर्जपत्रादीनां स्वाभिप्रायद्योतनाय तत्तदाकृत्या कर्तनं क्रियते । ] [ वा इति विकल्पेन तस्य यत्किञ्चिज्ज्ञत्वं सूचितम् । ] पत्रकर्तरी पत्राकारा कर्तरी पत्रसहिता वा। [वस्तुतस्तु लघुकर्तरी या पत्रच्छेदे उपयुज्यते । ] [ सततं हस्ते कर्तरीधारणेनैव पत्रच्छेद्यकलायां स्वकौशलमस्तीति सूचयति, न तु क्रियया प्रकटयति अज्ञानात् इति भावः । ] ॥७४।। [ इतः घटसु तत्सेवकैः कृतायाः भट्टपुत्रस्य व्याजस्तुत्याः अनुवादः, तद्वारा च तत्रतत्र अज्ञानेऽपि तस्य मिथ्याभिमानिता दर्शिता । ] भट्टपुत्रस्य तस्य, प्रावीण्यं अभिज्ञता कर्तृ, नाट्यशास्त्रपरमाचार्यनारदादीनपि अभिभवति, केवलममिमानवशात् स्वस्मिस्तथाऽभिमन्यते इत्यर्थः ॥ [ नाट्यशास्त्रस्य ब्रह्मा आद्याचार्यः, तदुक्तं भरतेनैव नाट्यशास्त्रे " नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहहतम् ॥ " (अ. १ श्लो. १) " श्रूयतां नाट्यवेदस्य संक्षेपो ब्रह्मनिर्मितः ॥ ७ ॥ " इत्यादि च । " नाट्यभेदान् ददौ पूर्व भरताय चतुर्मुखः । ” इति स्कन्दपुराणे च । नारद: गान्धर्वशास्त्रप्रणेता, तथाहि “ नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु " इति कादंबर्या चंद्रापीडविद्याग्रहण
७४. जानस्वाकौशलं ( ?) (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com