________________
कुट्टनीमतम् । अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलिताभिः। मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥६॥ अविरलसञ्चरदबलाचरणतलालक्तकद्रवारुणितम् । स्थलकमलवनीलक्ष्मी बिभर्ति वसुधातलं यत्र ॥ ७॥ यत्र च रमणीभूषणरवबधिरितसकलदिङ्नभोभागे । शिष्याणामाचा वधं वार्यते पठताम् ॥ ८॥ विन्ध्यधराधरभूरिव या राजति मत्तवारणोपेता ।
बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥९॥ श्लेषद्वारा पूर्वोक्तमेव समर्थयति चन्द्रेति । ] चन्द्रः स्वर्ण भूषणविशेषो वा, पक्षे सुधांशुः; “ चन्द्र: कर्पूरकांपिलसुधांशुस्वर्णवारिषु ॥ इति मेदिनी । भूतिः ऐश्वर्य भस्म च । भुजङ्गाः खिगाः सर्पाश्च, “ वेश्यापतिर्भुजङ्गः स्यात् खिड्गः” इति कोषः; " भुजङ्गोऽहिर्भुजङ्गम: ” इति अमरः । [ वारस्त्रियः—वारस्य वृन्दस्य उपभोग्या:, यद्वा वारो गणिकाध्यक्षः तं प्रतिबद्धा स्त्री ( इति सर्वानन्दः) ता:–वेश्या: । पशुपतिः शिवः । ] [ अत्र अभङ्गशब्दश्लेष: । दण्डिपरिभाषया तु श्लेषोपमा । ] ॥ ५ ॥ अतितुङ्गानां अत्युच्चानां, सुरनिकेतनानां देवमन्दिराणां, शिखरेषु ऊर्श्वभागेषु, समुक्षिप्ता: प्रोन्नमिताः, अत एव पवनचलिता:, ताभिः वैजयन्तीभिः पताकाभिः, मञ्जरितमिव संजातमञ्जरीकमिव ॥६॥ [अविरलं निबिडम् । ] 'अविरतं । [इति पाठे] निरन्तरं, संचरन्तीनां अबलानां चरणतलयोः, संसक्तालक्तकद्रवेण लाक्षारसेन, अरुणितं अरुणवर्ण, वसुधातलं भूभागः, स्थलकमलवन्याः भुवः, लक्ष्मीमिव लक्ष्मी शोभां, बिभर्ति । 'स्थलकमललतालक्ष्मी' इति पाठे स्थलकमलपरम्पराशोभां इत्यर्थः । [अत्र स्थलकमलेत्यादिसाभिप्रायविशेषणत्वात् परिकरालंकारः । ] ॥ ७ ॥ अङ्गनानां अलङ्काराणां शब्दैः, बधिरिते परिपूर्णे अश्रयमाणशब्दान्तरे इति यावत् , सकलदिशां नभसश्च, भागे आभोगे, छात्राणां, संजातमपि, (अवयं) स्खलनं अपपाठः, अध्यापकैर्न वार्यते अश्रुतत्वात् । ' शिष्याणां नाचार्यैरवद्यमवधार्यते पठताम् । इति पाठान्तरम् । [ उदात्तालंकारः । ] एतेन नगरीसौभाग्यसंपत्तिः बोधिता ॥ ८ ॥ [इतो नवभिः
अविरत ( गो. का.) । स्थलकमललतालक्ष्मी (गोटि)। वी लक्ष्मी (प) ८ शिष्याणां नाचार्यैरवद्यमवधार्यते पठनम् (प) शिष्या 'पठताम् ( गो २) ९ दिव्य. धराधर (का) [श्लेषासमर्थकः पाठः ।]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com