________________
४४४
दामोदरगुप्तविरचितं तद्यन्मयोपदिष्टं कामिजनार्थाप्तिकारणं तेन । महती समृद्धिमेष्यसि कामुकलोकाहतेन वित्तेन ॥ १०५७ ॥"
इत्युपदेशश्रवणप्रबोधतुष्टा जगाम धाम स्वम् । मालत्यपगतमोहा विकरालापादवन्दनां कृत्वा ॥१०५८॥
मानम् ॥ (५।७६)। निष्पीतसारं विरतोपकारं क्षुण्णेक्षुशल्कप्रतिमं त्यजेत्तम् । लब्धाधिवासक्षयकारि शुष्कं पुष्पं त्यजत्येव हि केशपाश: ॥” (५।७८) इति ॥ १०५६ ॥ विकराला स्वोपदेशं उपसंहरति तदिति । तत् तस्मात्, यत्, कामिजनानां कामुकानां रतिरसाविष्टानां अर्थानां द्रव्याणां आप्तिकारणं स्वलाभहेतुभूतं, मया कुट्टन्या, उपदिष्टं आर्याणां यूनसहस्रेण (५९ आर्यामारभ्य १०५६ आर्या यावत् ) उपदेशविषयीकृतं, उपदेशश्च " इदं कुरु गृहाणेदमुपदेश इति स्मृतः ।" (२२।५६) इति भरतः, अर्याममोपायः: सविस्तरं प्रोक्तः इति भाव:, तेन उपदेशेन अर्थात् तदनुसाराचरणेः, त्वमपि मंजरीवत्, कामुकजनेभ्य: अपहृत्य संपादितेन, वित्तेन द्रव्येण, महतीं समृद्धिं बह्रीं धनादिसंपत्ति, एष्यसि प्राप्स्यसि ॥ तथैव वात्स्यायनीये उदाहृतः श्लोकः"एवमेतेन कल्पेन स्थिता वेश्या परिग्रहे । नातिसंधीयते गम्यैः करोत्यर्थीश्च पुष्कलान् ॥” (६३) इति । एतदेव वेश्यानां परमं साध्य, तदुक्तं तंत्राख्यायिके"वेश्यानां धनार्जनमेव हि पुरुषार्थः ।" इति; तथा च क्षेमेन्द्र:-" प्राप्ते कान्ते कथमपि धनादानपात्रे च वित्ते, ' त्वं मे सर्व, त्वमसि हृदयं, जीवितं च त्वमेव ।' इत्युक्त्वा तं क्षपितविभवं कंचुकाभं भुजंगी त्यक्त्वा, गच्छेत्सधनमपरं, वैशिकोऽयं समासः ॥" ( ५।८९) इति समयमातृकायाम् ॥ तथा " मायाप्रपंचसारश्च वेश्यानां विभवोद्भवः ।" इत्यपि तत्रैव । (४१३७ ) ॥ अत्र ४४ आर्याया आरब्धायाः विकरालोक्तेः समाप्तिः ॥१०५७॥ ततः मालतीवृत्तमाह इतीति । इतिशब्दः पूर्वोक्तप्रकारोपसंहारे, उपदेशस्य शिक्षायाः, श्रवणेन अर्थतोऽवधारणेन यः प्रबोधः अज्ञाननिद्रानाश: ज्ञानं तेन तुष्टा तृप्ता, अपगतः विनष्ट: मोहः अविवेकः स्तब्धता अज्ञानकृतविपर्ययः प्रकृते लोकानां वेश्याजालपातनोपायसंबद्धः यस्याः सा, मालती, विकरालायाः तदाख्यायाः अनुगुणनाम्न्याः (विशेषेण शरीरगुणविशेषत्वात् दंतुराया: वंचकवृत्तप्रवीणत्वात् भीषणायाः वा, " करालो दंतुरे तुंगे भीषणे चामिधेयवत् ।" इति मेदिनी, ) उपदेष्ट्रयाः कुट्टन्याः, कृतज्ञतया पादयोः चरणयोः वंदना उपसंग्रहणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com