________________
कुहनीमतम्।
अथ विरतोक्तौ तस्यामुल्लासितमानसे च नृपतौ च । कश्चिदगायद्वीतिं स्मृतिसङ्गतिमागतां प्रसङ्गेन ॥ १०४२ ॥ 'अन्योन्यगाढरागप्रबलीकृतचित्तजन्मनोयूनोः।। कालात्ययो मनामपि समागमानन्दविनकरः ॥ १०४३ ।। श्रुत्वा समरभटस्तां, प्रियाप्रियां प्रीतिमान् स्मितप्रथमम् ।
निजगाद'चारुभाषिणिगीतिकया समयसम्मतं कथितम् ॥१०४४। स्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥” ( बालरामायणे ३।११) इति प्रसिद्धिः तेन मिथ्याकृता इति भावः । राजपुत्रस्य निराकुलत्वलिंगेन कामस्य पुनहानुमितेः अनुमानालंकारः ॥१०४१॥ समनंतरवृत्तकथनं उपक्रमते अथेति । विरतोक्तौ समाप्तकथनायाम्। उल्लासितमानसे हृष्टचेतसि । चकारौ अत्र यौगपद्यद्योतको । स्मृतीत्यादिप्रस्तावविशेषेण स्मरणपथं आगताम् । अत्र समाधिरलंकारः, तल्लक्षणं च-" समाधिः कार्यसौकर्य कारणान्तरसन्निधेः ।" इति कुवलयानन्दे ॥ १०४२ ॥ तां गीतिमुदाहरति अन्योन्येति । परस्परं गाढरागेण दृढस्नेहेन प्रबलीकृतः पुष्टिं नीत: चित्तजन्मा स्मरः काम: ययोः तयोः । मनाक् ईषद् , अपि, कालात्यय: विलंबः येनकेनापि कारणेन इति भावः, समागम: मिलनं तेन यः आनंदः हर्षोत्कर्षः, तस्य विनकरः प्रत्यूहजनकः, अतः स्नेहस्मराकुलाभ्यां नायकाभ्यां कथमपि शीघ्रमेव समागम: संपादनीयः इत्युक्तं भवति । सुखोपनते मनोरथे कालहरणं न श्रेयः इति भावः । श्रव्यकाव्येषु एतादृशीभिः प्रसंगोक्तिभिः दृश्यकाव्यगतचूलिकाकार्य निर्वाह्यते इति बोध्यम् । गीतिः छन्दः ॥१०४३॥ तदुक्त्यनुसारेण जायमानां तस्य प्रवृत्तिं प्रकाशयति श्रुत्वेति । तां गीतिम् । समरभट: सिंहभटपुत्रः राजपुत्र इति व्याहृतः । प्रीतिमान स्निग्धः, सन् , प्रियाप्रियां स्वस्य प्रिया मनोरमा मंजरी तस्याः प्रियां स्निग्धां सखीं इति यावत् , निजगाद उवाच । तत्किमित्याह चार्वित्यादि । हे चारुभाषिणि मधुरवाणि, स्वस्य प्रियनिवेदकत्वात् तथासंबुद्धिः, अनेन तस्याः कथनं स्वेन अनुमोदितं इति सूचितम् । गीतिकया अनया श्रवणपतितया इति भावः, समयसंमितं अवसरोचितं सिद्धान्तानुकूलं कामिनां आचारैः अनुमोदितं वा, कथितम् । अनेन तया मत्समागमः त्वया शीघ्रं संपादनीयः इति सूचितम् ॥ १०४४ ॥ अभीति । सा दूती, प्रमदावती इति तस्याः नाम, तथेति तथाऽस्तु युवयोः समागमः
१०४२ मानसेन (च) नृपसूनौ ( स्तं)। गायत गीति (स्तं ) १०४४ श्रुत्वा सिंहटपुत्रः प्रिया० (स्तं)। समयसम्मितं (स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com