________________
दामोदरगुप्तविरचितं दग्धोऽपि पुनर्दग्धो नूनमनङ्गो हरेण, तां तन्वीम् ।
दृष्ट्वाऽपि येन तिष्ठसि निराकुला स्वस्थवृत्तेन ॥" १०४१ ॥ विशेषो यः स विलासो मतो बुधैः ॥” इति भरतलक्षितः, ते विलासा: यानादिषु अग्राम्यललिता: क्रियाः, तेषां जालके समूहे, शब्दशक्त्या च धूर्तकृत्ये इत्यपि सूच्यते, तथा विलासा एव जालकं आनायं पक्ष्यादिबन्धनं, तत्र पतितः, ] कपिल: महामुनिः प्रसिद्धः, [ कर्दमप्रजापतेः देवहूतिगर्भजातः सांख्ययोगप्रचारार्थ भगवदवतारः मुनिविशेषः, " सिद्धानां कपिलो मुनिः " ( १०।२६) इति भगवद्गीतायां भगवता प्रशस्तः, (सिद्धस्तु ' जन्मनैव विना प्रयत्नं धर्मज्ञानवैराग्यश्वर्यातिशयं प्राप्तः अधिगतपरमार्थो वा ।' ) स तादृशो वीतरागोऽपि शकुनायते शकुनवत् पक्षिवत् आचरतीति, आचारार्थे विप् । तदुक्तं गुणाकरेण- "आत्मानमन्तःकरणे मुनीन्द्रास्ता. वत्प्रशस्ताः परिशीलयंति । यावन्मुखेन्दं सविलासरंग विलासिनीनां न विलोकयंति ॥" (कामप्रदीपे ५) इति । एवं सति रूपादिपंचविषयासक्तिरूपकारणेन असमर्थेषु रागि पुरुषेषु, तस्याः मंजर्याः, का, खलु इति जिज्ञासार्थकं अव्ययं, आस्था आदरः । सिदः कपिलोऽपि तद्विलासमुग्धः जालग्रस्तपत्रिवत् व्याकुलो भवति इति अनुभूय सा विषयासक्तान् दुर्बलान् पुरुषान् नैव गणयति इति भावः । तदुक्तं "तावद्विदग्धो वीरश्च नरो भागी शुभस्य च । यावत्पतति नैवासौ रामाविभ्रमभूमिषु ॥” इति । एतादृशीं कामयमानां सुंदरी संगम्य चरितार्थों भव इति सूचितम् । काव्यापत्तिरलंकारः; अपि च "कपिलो मुनिभेदेऽसौ शुनि, पिङ्गे तुवाच्यवत् ।" इति विश्वलोचनात् कपिलः श्वा शकुनायते इति विरोधाभासः, तेन च तस्याः अद्भुतत्वं व्यंजितम् ॥ १०४० ॥ एवं नानाप्रकारः तत्प्रलोभनादौ कृतेऽपि तं निर्विकारमिव आलक्ष्य किंचिदधिक्षेपपूर्वकं सोपालंभं उपसंहरति दग्ध इति । येन यतः, तां ईदृक्तया वर्णिता, तन्वीं नवयौवनां मंजरी इत्यर्थः, यथोक्तं-" अप्रसूता भवेच्छ्यामा, तन्वी च नवयौवना ।" इति । ( मेघदूते “ तन्वी श्यामा शिखरिदशना'" " (७८) इत्यत्र तन्वीश्यामाशब्दयोः एवंभेदेन विशिष्टतया अर्थ: । ) निराकुल: अच्युतधैर्यः । स्वस्थवृत्तेन अकलुषितचरितेन । अनंग: कामदेवः, हरेण हरति अपनयति संहरति इति हरः, अत्र पदौचित्यं; एकवारं दग्धोऽपि पुनः द्वितीयवारं, दग्धः । अनंगस्य शरीररहितस्य दाहेन हरस्य अद्भुतकर्मत्वं सूचितम् । नूनं इति निश्चयः, विविच्यमानेऽपि हेत्वंतरस्य अनुपलब्धेः अघटितत्वात् वा । " कर्पूर इव दग्धोऽपि शक्तिमान् यो जनेजने । नमोऽ
१०४१ दग्वाऽपि (गो.प)। तिष्ठति (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com