________________
कुट्टनीमतम् ।
३७३ एवम्मायैरनुदिनलाभोदयमोहकारिभिर्वचनैः । फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ॥ ९३८ ॥ एतद्विषये नैपुणमत्र तु भूमीभुजां समाश्रित्य ।
मुखरतया कथयामो जडमिव सामाजिकोचितं किञ्चित् ॥९३९॥ दोषं आरोपयति प्रथमेति । प्रदेशस्थं भूम्यादिदेशगतं, अनल्पफलजीवनं बहुद्रव्यलाभवती वृत्तिः, प्रथमतरं एव तव याचनात् पूर्वमेव, तव कल्पितं मया शासनलेखादिना निर्वृत्तं, तथापि तव वचनात् इदानीं जाने यत्, अद्यापि एतत्क्षणपर्यन्तं, ते तव, न जातं हस्तगतं स्वात्मीकृतं वा न अभूत् । तत्र कारणं स्वयमेव सूचयति नियोगिनां इति । नियोगिनां विनियोगिनां " अनेनेदं तु कर्तव्यं विनियोगः प्रकीर्तितः ।" इति नियोगः प्रेरणं, सः अस्यास्तीति नियोगी, तेषां दूतक-शासनलेखक-मुद्रापरिपंथकाद्यधिकारिणां, मन्थरतां मंदकार्यकरणतां कार्ये विलंबशीलत्वं, पश्य अवलोकय । राजकीयव्यवहारदोष एव अत्र अपराध्यति इति भावः ॥ ९३७ ॥ प्रस्तुतान् कुसेव्यवचनप्रकारान् उपसंहरति एवमिति । एवंप्रायः उक्तप्रकारप्रचुरैः, अनुदिनं दिनेदिने अनुदिनं प्रतिदिवसं इत्यर्थः, लाभः द्रव्याधिगमः, उदय: उच्चपदाधिगमः, तयोः विषये मोहकारिभिः विपर्ययमत्युत्पादकैः फलशून्यैः लाभादिप्राप्तिवंचितैः, वचनैः वाक्यः, कः प्रश्ने, अनुजीवी सेवक: दासः, कियत्कालं कियंत कालं अभिव्याप्य, प्रतारित: वंचितः, भवेत् , काक्वा एतादृशैः फलदर्शक: अपि तच्छून्यः वचनाभासै: सेवकानां दीर्घकालं प्रतारणं असंभाव्यं इति भावः ॥ एतदुपन्यासेन नाट्यदर्शनात् संतुष्टेन स्वेन तत्कालमेव ग्रामशासनं प्रदत्तं इति स्वस्य सुस्वामित्वं सूचितम् ॥ ९३८ ॥ प्रक्रान्तं ( आ. ९३० ) नाट्यगुणग्रहणं पुन: अनुसंदधानः तदवतारयति एतदिति । अत्र प्रकृते, तुः पूर्वगतविषयवर्णनभेदे, एतद्विषये नाट्यविषये, भूमिभुजां राज्ञां नैपुणं लक्ष्यलक्षणादिपरिशीलनात् व्युत्पत्तिमत्त्वं लोकप्रसिद्धं समाश्रित्य अवलंब्य, सामाजिकोचितं नाट्यं दृष्ट्वा सामाजिके: तद्गुणदोषकीर्तनं कार्य इति कृत्वा, यत् सामाजिकस्य सभासद: प्रेक्षकस्य उचितं योग्यं तत् इत्यर्थः, मुखरतया वावदूकतया, न तु तद्रहस्यवित्तया इति भावः, जडमिव मौर्ण्यविशिष्टमिव, किंचित् अल्पं, कथयाम:
९३८ दिनलोभोदय (२) ९३९ एतद्विषमं (गो२. का)। भूमीभृतां (गो२. का)। समाश्त्य (स्तं)। कष(य?)यामस्तथापि सामा० (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com