________________
कुट्टनीमतम् ।
३६३
शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ ।
तारमधुरस्फुटार्थ नग्नाचार्यः पपाठ नेपथ्ये ॥ ९२० ॥ क्षितिनाथं राजानं, साधिकं विशेषेण तस्य प्रियपतित्वात्, अभ्यार्चत् । अत्र उपलब्धकोशेषु — अभ्यर्च्य ' इति पाठे सत्यपि तस्य क्लिष्टान्वयतया ' अभ्यार्चत् । इति पाठः स्यादिति तथा व्याख्यातम् । यद्वा यथास्थितपाठे क्षितिनाथमिति पदमनु ' अभ्यार्चत् ' इत्यध्याहर्तव्यम्। इदं सर्व दृष्टा, तस्यां पूर्वनिर्दिष्टायां प्रसिद्धायां, विग्रहवन्मदनमनसि कन्यायां-कुसुमावचयव्यापृतया सागरिकया देवीकृतं कामदेवमूर्तिपूजनं न दृष्ट, पश्चाच राज्ञ एव पूजनं दृष्टं, तेन सुरूपे उदयने एव तस्याः शरीरिणः कामदेवस्य बुद्धिः जाता, तदेतदुक्तं विग्रहवन्मदनमनसि; कन्यायां अनूढायां सागरिकायां, परमां सातिशयां, तथात्वे च हेतु: विग्रहेत्यादि, मुदं प्रियलाभनिमित्तं हर्ष, वहन्त्यां सत्यां, मोदावस्थां अनुभवन्त्यां इत्यर्थः । ] ' विग्रहवन्मनसि [ इति पाठे] रोषाक्रांतचेतसि [इति टिप्पणी अशुद्धा, विग्रहवान् शरीरी मदनः कामदेवः अयं इति मनः बुद्धिः यस्याः तस्यां, इति मध्यमपदलोपी समासः, तथाऽर्थश्च; तथाहि कामदेवस्य पूजनमदृष्ट्वा उदयनस्यैव पूजनदर्शनात्, तस्य च लोकोत्तरसौन्दर्यात्, तया उदयनः सशरीरकामदेवत्वेन गृहीतः इति भावः । तथा च नाटिकायां सागरिकोक्तिः-" कथं प्रेक्षित एवापूर्वः कुसुमायुधः । अस्माकं तातस्यान्त:पुरे चित्रगतोऽर्च्यते, इह प्रत्यक्षीकृतः, तदहमप्येभिः कुसुमैरिह स्थित्वैव भगवंतं कुसुमायुधं पूजयिष्ये । " इति ॥ ९१९ ॥ तथा नृपती उदयने, सोत्कलिकं उत्कलिकया उत्कण्ठया सहितं यथा स्यात्तथा इति क्रियाविशेषणस्य 'निपतिते । इत्यनेनान्वयः, श्लेषे विशेषणं च, उत्कलिकाभिः कल्लोलैः सहितं, " भवेदुत्कलिका हेलोत्कण्ठासलिलवीचिषु ।" इति विश्वलोचनः, शृंगाररस एव समुद्रः सागरः, तं, अत्यंतसंयोगे द्वितीया, तस्मिन्नित्यर्थः, नितरां पतिते सति, राशि अत्यंत उत्कण्ठिते सति इति भावः । ननाचार्यः नमानां बन्दिनां आचार्यः वैतालिकः, नेपथ्ये जवनिकान्तरे वेषपरिग्रहस्थले, “ नेपथ्यं स्याजवनिका रंगभूमिप्रसाधनम् ।" इति अजयः, तारमधुरस्फुटार्थ-तारं उच्चैः, मधुरं श्रुतिसुखकरं, स्फुटार्थ सुव्यक्तार्थकं च यथा स्यात् तथा, पपाठ । तारेत्यादि-क्रियाविशेषणेन पाठस्य सौष्ठवं सूचितं, तदुक्तं-" पंचस्थानसमुद्भवबणेषु यथास्वरूपनिष्पत्तिः। अर्थवशेन च विरति: सर्वस्वमिदं हि पाठस्य ॥” ( काव्यमीमांसा ११७) इति ॥ ९२० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com