________________
२९१
दामोदरगुप्तविरचितं
वत्सपतिमा लिखन्ती कामावस्थां क्रमेण भजमाना । वेपथुपुल कस्वेदैरावहति विसंठुलं हस्तम् ॥ ८०८ ॥ सदृशेऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् । दर्शयति निरभिकाङ्क्षिन्तसौख्यं ननु गोचरापन्ना ॥ ' ८०९ ॥
9
शोत्कृष्टाभिनयभावितचेतोभिः उदीरितानां साधुसाधु सुष्ठुसुष्ठु 'साबाश' इति भाषायां, इति शब्दानां ध्वनिभिः घोषैः मुखराणि शब्दायमानानि आननानि मुखानि येषां तेषां सामाजिकजनानां प्रेक्षकाणां मनःसु वित्तेषु ॥ ८०७ ॥ रत्नावलीभूमिकायां तस्याः अपरमपि सौष्ठवस्थानमाह वत्सेति । क्रमेण पूर्वोक्तचिंतनादिक्रमेण ( ८०६ आ. टी. ), कामावस्थां कामस्य अन्यान्यां प्रत्येकां दशां, भजमाना अनुभवन्ती सती, वत्सपतिं वत्सराजं उदयनं, आलिखन्ती तस्य साक्षाददर्शने तच्चित्रालोकनेन मनोविनोदाय तत्प्रतिकृतिं चित्रफलके लिखंती, यथोक्तं मेघदूते “ मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।” ( २।२४ ) इति, अयमपि विरहे विनोदनप्रकार:, यथोक्तं- “वियोगे चायोगे प्रियजनसदृक्षानुगमनं, ततश्चित्रालोकं, स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमिति, प्रतीकारः कामव्यथितमनसां कोऽपि गदितः ॥ " इति; वेपथुपुलकस्वेदैः आलेखनकाले संजातकं परोमाञ्चस्वेदैः कंपादिसात्त्विकभावानुभावैः, आलेखन विघ्नकारिभिः, ] ' विसंष्ठुलं उन्मीलितसात्त्विकभावमन्थरं ' [ इति टिप्पणी, विह्वलं अस्थिरं इत्यर्थ:, हस्तं आवहति; तथाहि मालतीमाधवे माधवोक्तिः - “ वारंवारं तिरयति दृशावृद्गतो बाष्पपूरस्तत्संकल्पोपहितजडिम स्तंभमभ्येति गात्रम् । सद्यः स्विद्यन्नयमविरलोत्कं पलोलांगुलीकः पाणिर्लेखाविधिषु नितरां वर्तते, किं करोमि ॥ " ( ११३८ ) इति । प्रकृते रत्नावल्यां द्वितीयाङ्के "सागरिका - ( · · नाट्येन फलकं गृहीत्वा, निःश्वस्य । ) यद्यपि मे अतिसाध्वसेन वेपते अयं अतिमात्रं अग्रहस्तः तथापि तस्य जनस्य अन्यो दर्शनोपायो नास्तीति यथातथा आलिख्य एनं प्रेक्षिष्ये । ( इति नाट्येन लिखति । ) ” इति ॥ ८०८ ॥ तस्य कौतुकवर्धनार्थं तस्या: अपरमपि लोकोत्तरं चातुर्य कथयित्वा उपसंहरति सदृशे इति । ] गोचरापन्ना अवलोकिता, [-सा, करुणरसविप्रलंभकरुणयोः निःश्वासाद्यनुभावानां समूहस्य समानत्वेऽपि, अतः तत्फलस्य रसभावनस्य साम्यसंभवेऽपि इति भावः, तत्तदनुभावैः भाव्यं करुणरसं शोकस्थायिभावं, तं
•
,
८०८ पुलकं ( स्तं ) । ८०९ भावगुणे ( प ) । कांक्षितमुद्वर्तनगो ० ( प. स्तं ) 'तत्त्वं (कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com