________________
कुट्टनीमतम् । पार्थावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः । पप्रच्छ कुशलवाती स वणिज्जननर्तकमभृतीन ॥७६०॥(चक्कलकम्) __ अथ वैतालिक उच्चैरुपसंहतलोककलकले धीरम् ।
अभितुष्टाव तमित्थं प्रसन्नगम्भीरया वाचा ॥ ७६१ ।। संभारगर्भ: करंक: वेत्रादिनिर्मितपेटिका 'करंडीओ' इति भाषायां प्रसिद्धः, तांबूलकरंकः, तं विभर्ति इति तांबूलकरंकभृत् तेन, राजपुत्राय भक्षणार्थ अर्पणाय, संदंशेन संदंशाख्यहस्तेन गृहीतायाः धृतायाः वीटिकाया: तांबूलस्य ग्रहणे ग्रहणकाले इत्यर्थः, संदशलक्षणं तु-"तर्जन्यंगुष्ठसंयोगस्त्वरालस्य यदा भवेत् । अभुगतलमध्यश्च स संदंश इति स्मतः ॥” इति । मंदं यथा स्यात्तथा, वामेन सुंदरेण यद्वा वामहस्तकृतेन, खटकामुखेन ] खटकामुख: [खटिकामुख: कटकामुख: वा] हस्तविन्यासविशेष:, [तल्लक्षणं तु-"तर्जनीमध्यमामध्ये पुंखोऽङ्गुष्ठेन पीड्यते । यस्मिन्ननामिकायोगः स हस्त: कटकामुखः ॥” इति अमरुकशतकटीकाशंगारदीपिकायामुद्धृतम् । ( पुंख: शरस्य पत्रपाली।) ईषत्स्पृष्टं कुर्वन् तांबूलं किंचित्स्पृष्टं यथा स्यात्तथा गृह्णन् इत्यर्थः । अत्र पत्तनीयपुस्तकगतपाठस्य परिणाम:-'ईषत्स्पृष्टः कुर्वन्मन्दं बिटिकां मुखे नतांसेन । ' इति सरलार्थकः ॥७५९॥ पार्श्वे वामे दक्षिणे वा । नर्म परिहास:, " अग्राम्यः इष्टजनावर्जनरूप: परिहासो नर्म ।" इति दशरूपकावलोके, तत् प्रियं यस्य तादृशे, सचिवे सहाये मित्रे, न्यस्त: लीलया निक्षिप्तः, स्वस्य पूर्वतनोः नाभेरूवंशरीरस्य, भागः येन तादृशः । कुशलवार्ता आरोग्यादिवृत्तान्तम् ॥ ७६० ॥ चक्कलकं इति कलापकस्यैव नामान्तरं कश्मीरेष्वेव प्रसिद्धम् ॥ एवं निर्वृत्ते शिष्टाचारे, तस्य राजपुत्रत्वात् एकेन चारणेन प्रवृत्तं तद्यशोगानं प्रकाशयन् अवतारयति अथेति । अथ अनन्तरं कुशलप्रभादिसमाप्तौ । वैता. लिक:-विविधः ताल: वितालः, तेन व्यवहरतीति ठक् ; यद्वा विशिष्ट: तालः विताल: स शिल्पं अस्य स:, “ शिल्पं "(पा. ४।४।५५) इति ठक्, सूत: स्तुतिपाठकः; तल्लक्षणं भावप्रकाशे-" तत्तत्प्रहरकयोग्यै रागैस्तत्कालवाचिभिः श्लोकैः । सरभसमेव वितालं गायन् वैतालिको भवति ॥” इति । उपसंहृतलोककलकले जनसमूहविरावे शांते सति; धीरं स्वस्थमनसं, राजपुत्रं, इत्थं वक्ष्यमाणप्रकारेण; प्रसन्नगंभीरया-प्रसन्ना मृदुला विमला वा, गंभीरा अर्थगुर्वी च, तादृश्याऽर्थगुणवत्या, यद्वा प्रसन्ना मधुरा, गंभीरा मेघमन्द्रघोषवत् सुस्वरा च, तादृश्या स्वरगुणवत्या, वाचा भारत्या गिरा वा,
७६० नम्रप्रिय (प. स्तं)। पृच्छंच (गो. का) [चकलकाङ्कनेन विरुद्धः पाठः] । सवणि. (गो. का)। नर्तन (प. स्त)। कुलकम् । (स्तं) ७६१ धीरः (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com