________________
२५४
दामोदरगुप्तविरचितं
प्रादुर्भूतरिरंसं क्षणेक्षणे जघन देशगतदृष्टिम् । कामिव विमोक्ष्यसि पूर्ववदाचूष्य सुभ्रु निःशेषम् ॥ ७३३ ।
( युग्मम् )
स्वशरीरामिषदिग्धं वक्रस्मितदृष्टिपातवाग्बडिशम् । प्रक्षिप्याकृष्य जडं स्फुरणेन विवर्जितं सुपरिपुष्टम् ॥ ७३४ ॥
इति विश्वलोचनः । अत एव परिमृष्टं प्रमार्जितं प्राङ्निराकृत्याः पूर्वकृततिरस्कारस्य स्मरणं यस्य, तादृशं कामुकम् । ग्रहाभिभूतस्य च विस्मृतिः जायते इति प्रसिद्धमेव || ७३२ ॥ पुनश्च प्रादुर्भूतरिरंसं संजातरमणेच्छं अत एव तत्प्रदर्शनाय, क्षणेक्षणे वारंवारं, अनेन लोलाख्यः दृष्टिविकारः सूचितः, तथा च “ धारावाहिकसंचारो यस्य तल्लोलमुच्यते । " इति, जघनदेशे गता दृष्टि: नेत्रं यस्य तं, जघनस्थल्याः कामक्रीडाभूमित्वात्, जघनं पूर्वं व्याख्यातं ( आ. ५८० ), तच्च - " भगस्य भालं जघनं विस्तीर्ण तुंगमांसलम् । मृदुलं मृदुरोमाढ्यं दक्षिणावर्तमीडितम् ॥” इति वर्णितम्, ) तादृशं कामुकं अनुसंहितं रतिभोगप्रणयिनं, पक्कानं परिणताम्रफलं निःशेषं आचूष्य तस्य धनरूपरसं निष्कृष्य स्वात्मीकृत्य, हे सुभ्रु शोभनभ्रूमति, अनेन तस्य अवश्यं वशीकरणादि भावि इति सूचितं पूर्ववत् यथा भूतकाले एकवारं कृतं तथा, विमोक्ष्यसि स्वयं परित्यक्ष्यसि, अपरेण दास्यादिना वा निष्कासयिष्यसि ॥ त्दुक्तं-"गम्यं निरूप्य सा स्फुटमनुरक्तेवाभियुज्य रञ्जयति । आकृष्टसकलसारं क्रमेण निष्कासयत्येनम् ॥” इति शृंगारतिलके ( १२।४० ) । तथाच नीतौ - "वृक्षं क्षीणफलं त्यजंति विहगाः, शुष्कं सरः सारसा:, निर्द्रव्यं पुरुषं त्यजति गणिका, भ्रष्टं नृपं सेवकाः ( 'मंत्रिणः ' ) । निर्गन्धं कुसुमं ( ' पुष्पं पर्युषितं ' ) त्यजंति मधुपा, दग्धं वनान्तं मृगाः, सर्वः स्वार्थवशाज्जनोऽभिरमते, तत्कस्य को वल्लभः ॥ " इति ॥ ७३३ ॥ उपदिष्टं वैशिकशास्त्रसिद्धान्तं दृढं आधातुं उपसंहारे पुनरपि तदेव रूपकालंकारद्वारा युग्मेन अनुवदति स्वशरीरेत्यादिना । ] 'अशरीर:' [ इति पाठे ] काम:, [ स्वशरीरं एव ] आमिषं भोग्यवस्तु, [“ आमिषं भोग्यवस्तुनि " इति केशवः, वस्तुतः अत्र मांस, क्लीबमामिषमुत्कोचे मांसे संभोगलोभयोः । आमिषं सुंदराकाररूपादौ विषयेऽपि च ॥” इति विश्वलोचने, ] तेन दिग्धं योजितं, [यत् ब ('व') डिशं मत्स्यबंधनं 'ग' इति भाषायां तत्र आरोपविषयस्तु वक्रेत्यादिकमारभ्य वागन्तः, तत्र वक्रेतिविशेषणं
66
1
इव,
७३३ दावूष्य नि: ( का ) ७३४ स्वशरीरा ( प. गो २ ) । चक्रमितदृ" तमस्खलितम् - प्रक्षिप्य क्षिप्रतरं ( का ) [ हीनार्थकः पाठः ] | सुपरिदृष्टम् (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com