________________
दामोदरगुप्तविरचितं 'मामा तावद्यात क्षणमेकं यावदेष निष्करुणः । वनगुल्मैन तिरोहित' इत्यभिदधतीं जहुःप्राणाः॥४७२॥(कुलकम)
अथ पश्चात्समुपेतं पपच्छ पुरन्दरात्मजः पथिकम् । 'दृष्टा शोकव्यथिता निवर्तमाना वराङ्गना भवता' ॥ ४७३ ॥ स उवाच 'वटतरोध उया पतिता विनिश्चलावयवा । तिष्ठति वनिता, नान्या नयनावसरं गताऽस्माकम् ॥ ४७४ ॥
इति तद्वचनाश्महतो विहलमूर्तिः पपात भूपृष्ठे ।
उत्थापितश्च सुहृदा सोभिदधे तेन शोकविकलेन ॥ ४७५ ।। कृतां पराधीनां तत्पीडापराधीनां इत्यर्थः, अन्तःपरिकृष्यमाणभारत्या समासन्नमृत्युकाले परिशुष्यद्वाणीप्रचारतया, अपरिस्फुटं अव्यक्ताक्षरं, अभिदधतीं आलपन्तीम् ; । ४७१॥ तदुक्तिमेवाह मामेति प्राणान् प्रति, मामेत्यनौचित्येन वीप्सया निषेधः, मा यात विलम्बत, निष्करुणः निर्दयः निष्ठुरः, वनगुल्मैः वनजकाण्डरहितवृक्षजातिभिः, तिरोहितः अन्तर्धानं अदृष्टत्वं प्राप्तः । प्राणा: इति प्राणस्य उपाधिभेदेन प्राणापानसमानोदानव्यानाः इति पञ्चमेदवत्त्वात् बहुवचनं, तां जहुः-विरहनिःसहा सा वीतजीविता जाता इत्यर्थः । यत: वियोगासहत्वं कामुकानां रूढरागत्वलक्षणम् । उक्तं हि-" इष्टप्रवासजनितान्यषलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥" ( शाकुं० ४।२) इति; “ माभूत्सजनसङ्गो, यदि सङ्गो मा पुनः स्नेहः । स्नेहो यदि विरहो मा, यदि विरहो जीविताशा का ॥” इति च । तथा च मदालसाचंप्वां-" तत्तु प्रेमविडंबनं विघटितं प्राणप्रिया योषितो वैवर्ण्य जडतां तनोस्तु तनुतां विन्दन्ति यत्केवलम् । यावगोचरमाकलय्य सुदती देहं जहात्यप्रियं, सा नूनं दयिता, स एव दयित:, स्नेहस्य सा पूर्णता ॥" (४।६३) इति । ] ॥ ४७२ ॥ [ अथेति प्रस्थितनायकवृत्तं वर्णयति । स स्वस्य पश्चात् आगतं कंचित् पथिक हारलतां उद्दिश्य पृष्टवान्–शोकाकुला काचित् सुन्दरी] निवर्तमाना स्वगृहं प्रति गच्छन्ती [त्वया दृष्टा इति।] ४७३॥ [ स उवाच पथिकः प्रत्यवदत् । विनिश्चलावयवा इत्यनेन सा मूर्छिता वा मृता वा इति स्वाज्ञानं सूचितम् । ] ४७४ ॥ [इति तत्प्रकारकं, वचनाश्म वाक्यरूपः प्रस्तर: दृढाघातकत्वात् , 'वचनानहतः । इति पाठे वाग्बाणविद्धः, सा मृतैवेति स्वयं
४७२ दधतीं जहुः प्राणान् (प) [अपाठः ] ४७३ अथ वर्मनि ( गो. का )। निवर्तमानाङ्गना (प) ४७५ वचनास्त्र (गो. का)। शोकदीनेन (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com