________________
कुट्टनीमतम् ।
कौमारकं विहन्तुं रतिसमये मदनसेनायाः ।
इच्छामि किन्तु तस्या मात्राऽतीव प्रसारितं वदनम् ॥ ३५० ॥ विभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा । स्वकरेण पीतशेषा मदघूर्णितमदनसेनया दत्ता ॥ ३५९ ॥ कुवलयमालानिलयो लीलोदय किमिति सम्प्रति त्यक्तः । किं विदधामस्तस्मिन्भ्रातर्दास्या विना मूल्यम् || ३५२ ॥
८५
अनेवंविधत्वात् इति सूचितम् । ] ३४९ ॥ [ अभुक्तपूर्वायाः मदनसेनायाः ] कौमारकं बाल्यं तद्विहन्तुम् अपसारयितुं [ हर्तुं ], प्रथमसमागमाय इति यावत् । वदनं अतीव प्रसारितं- बहुद्रव्यं याचितम् ॥ ३५० ॥ [ मदघूर्णितमदनसेनया पीतशेषा मदिरा स्वकरेण दत्ता यत् उपभुज्यते इत्याद्यन्वयः । मदेन मद्येन मद्यपानेन, यद्वा “ मदिरादिकृतो मोहो हर्षव्यतिकरो मदः । " तेन घूर्णिता उन्मत्ता । निपीतपरिशेषस्य मधुनः अङ्गनास्यश्वसितसौरभमिश्रणात् नवसुधास्यन्दिबिम्बाधररस संक्रान्त्या वा लोकोत्तरगन्धरसस्पर्शवीर्यविपाकादिरूपः परमोत्कर्षः व्यज्यते, अत एव विभ्रमस्य तादृशपानं महत्तपःपुण्यफलत्वेन उत्प्रेक्ष्यते ॥ ][ मधुपानं प्रायः रतारम्भात् पूर्वं क्रियते, यत: सर्वजात्योः नायकनायिकयोः तत् द्वीविमोहविरहहृदयपाटवोत्पादत्रपानिगलनिरर्गलनिधुवनफलकम् । तथाहि कालिदास :- “ आसेवन्ते मधु रतिफलं " ( मेघ० २ । ५ ) इति । माघोऽपि “ आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा:, हीप्रत्यूहप्रशमकुशलाः श्रीधवश्वकुरासाम् ॥ ” ( ९ । ८ ) इति । क्वचित् रतश्रमापनोदित्वात् रतान्तेऽपि क्रियते ॥ तच्च नानाप्रकारेण—यथा क्वचित् प्रथमं प्रियेण मधु पीत्वा तत् प्रेमादरपुरःसरं प्रियायै दीयते, क्वचित् समानकालं पृथक्पात्रैः युगपद्वा एकपात्रेण पीयते, कदाचित् प्रिययैव आदौ तदनु प्रियेण-तदपि प्रियापीतशेषगर्भपात्रात् किंवा साक्षाद्दयितामुखकमलपात्रात् । अत्र उत्तरोत्तरस्य उत्कर्षः बोध्यः ॥ उक्तं च शृङ्गाररसज्ञैः “ प्रियामुखोच्छिष्टं हि पवित्रम् ” इति, स्मृतिरपि - " रतिकाले मुखं स्त्रीणां शुद्धमाखेटके शुनाम् । " इति । ] ३५१ ॥ [ निलयः वेश्म । दास्याः वेश्यायाः । दासीपदप्रयोगेण धिक्कारश्च व्यञ्जितः॥ उक्तं च लोकोक्तिमुक्तावल्यां – “ यूनामकिञ्चनानां का वाञ्छा वारसुन्दरीवीथ्याम् । कार्पासपण्यवीथ्याः कौलेयस्यापि कोऽपि सम्बन्धः || ” (९२) इति; कौलेयः श्वा ॥ ]
३५० कौमारकं विधातुं वाञ्छसि किल रमण मद० ( प ) ३५१° दुपयुज्यते ( प ) । तदेवदत्तया ( प ) ३५२ माला निलये किं विदधीमहि तं ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
विहातुं ( कापा ) त्यक्ता ( प ) ।
www.umaragyanbhandar.com