________________
काव्यशास्त्र संबंधी अभिप्रायो.
શાસવિશારદ જૈનાચાર્ય વિજયધર્મસૂરિ એ. એમ.એ. એસ. બી. કાવ્યશાસ્ત્ર વિષે નીચે પ્રમાણે લખે છે.
परिदृश्यते खलु सम्पति 'कवि' पदधारिणां बाहुल्यम् । परन्तु गूर्जरभाषायामपि विरला एव लभ्यन्ते यथार्थकवि तारः । गुणदोषरसालंकाररीतिपरिज्ञानमन्तरेण शब्दयोजनमात्र निबडबुद्धयः कवयो नातिरिच्यन्ते कपिचापलं कुर्वद्भयः । अतिरोहितमिदम्-'वर्तमानगूर्जरकविसंसारः मायः काव्यशास्त्र नियमनरपेक्ष्येण स्वच्छन्दतया कवमानो गूर्जर काव्यसाहित्य गौरवप्रचाराय न वर्ततेऽलम्भविष्णुः। एतादृशि परिस्थिती महत् कारणमिदमपि निश्चीयते-'संस्कृतवाचि काव्यप्रकाशकाव्यप्रदीप-साहित्यदर्पण-रसगंगाधरादयो जैनाचार्य हेमचन्दसूरिप्रभृतिप्रणीत काव्यानुशासन काव्य कल्पलताप्रभृतयः काव्यग्रन्था यथा प्रचलन्ति, न तथा तथाविधमेकमपि गूर्जर काव्यशास्त्रमुपलभ्यमानमवगम्यते । अत एव हेतोः सुसम्भवमेतत्-'गूर्जरकविताव्यवसायिनो न शन्क्रुयुः स्व व्यवसायमुपने तुं प्रौढिमानम् ' ।.
परन्तु महान् सौभाग्यावसरः- इदं काव्यशास्त्रं महता प्रयासेनः निर्माय राजकवि श्रीयुत् नत्थुराम सुन्दरजी महाशयै भृशमनुगृहीतोऽस्ति गूर्जरकविसंसारः । इदं काव्यशास्त्रं प्राचीन संस्कृत काव्यशास्त्राणि हिन्दी काव्यशास्त्राणि चानुसृत्य तदाधारेण निर्मितमस्ति, इत्येतदधिकं हर्षस्थानम् । सन्तोषाति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com