________________
८६
करुणरसकदम्बकम् [ ४४ ] श्रीरत्नाकर सूरेवैराग्यगर्भिताऽनुशय पञ्चविंशतिका ।
श्रेयः श्रियां मङ्गलकेलिसझ !, नरेन्द्रदेवेन्द्रनताङ्घ्रिपद्म ! | सर्वज्ञ ! सर्वातिशयप्रधान !, चिरं जय ज्ञानकलानिधान ! ॥ १ ॥ जगत्त्रयाधार ! कृपावतार ! दुर्वारसंसार विकारवैद्य ! । श्रीवीतराग! त्वयि मुग्धभावाद्विज्ञ ! प्रभो ! विज्ञपयामि किंचित् ॥२॥ किं बाललीला कलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्प: ? । तथा यथार्थ कथयामि नाथ !, निजीशयं सानुशयस्तवाग्रे ॥ ३ ॥ दत्तं न दानं परिशीलितं च न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद्भवेऽस्मिन् विभो ! मया भ्रांतमहो मुधैव ॥ ४ ॥ दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्यमहोरगेण । ग्रतोऽभिमानाजगरेण मायाजालेन बद्धोऽस्मि कथं भजे त्वाम् ॥५॥ कृतं मयाऽमूत्र हितं न चेह-लोकेऽपि लोकेश ! सुखं न मेऽभृत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञे भवपूरणाय || ६ || मन्ये मनो यन्न मनोज्ञवृत्तं त्वदास्यपीयुषमयूखलाभात् । द्रुतं महानंदरसं कठोरमस्नादृशां देव ! तदश्नतोऽपि ॥ ७ ॥ त्वत्तः सुदुष्प्राप्यमिदं मयाप्तं रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत् कस्याग्रतो नायक! पुत्करोमि ॥ ८ ॥ वैराग्यरंगः परवंचनाय, धर्मोपदेशो जनरंजनाय ।
"
वादाय विद्याऽध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश !॥९॥
१ स्वाभिप्रायम् । २ पश्चात्तापसहितः । ३ मनोहरम् । ४ महासर्पेण ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat