________________
करुणरसकदम्बकम्
[ ४३ ] गर्भनिश्चलत्वे त्रिशलाया विलापः ।
"
ततो भगवतो निश्चलावस्थानानन्तरं तस्यास्त्रिशलाक्षत्रियाण्या अयमेतद्रूपो यावत् अध्यवसायः समुत्पन्नः कोऽसौ ? इत्याह- हृतो मे-मदीयः स गर्भः किं केनचिद्देवादिना हृतः १ अथवा स मे गर्भः किं मृतः ? अथवा स मे गर्भः किं च्युतो ? गर्भस्वभावात् परिभ्रष्टः, अथवा स मे गर्भः किं गलितः ?- द्रवीभूय क्षरितः, यस्मात्कारणात् एष मे गर्भः पूर्व एजते- पूर्व कम्पमानोऽभूत्, इदानीं नैजते-न कंपते इतिकृत्वा - इति हेतोः उपहत - कलुषीभूतो मनः संकल्पो यस्याः सा तथा चिंता - गर्भहरणादिविकल्पसंभवा अर्त्तिस्तया यः शोकः स एव सागरः - समुद्रस्तत्र प्रविष्टा - ब्रूडिबा, अतएव करतले पर्यस्तं - स्थापितं मुखं यया सा तथा, - आर्त्तध्यानोपगता भूमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्यायति स्म तल्लिख्यते—
सत्यमिदं यदि भविता, मदीयगर्भस्य कथमपीह तदा । निष्पुण्यकजीवाना - मवधिरिति ख्यातिमत्यभवम् ॥ १ ॥ यद्वा चिंतारत्नं, न हि नन्दति भाग्यहीनजनसदने । नाऽपि च रत्ननिधानं, दरिद्रगृहसंगतीभवति ॥ २ ॥ कल्पतरुर्मरुभूमौ न प्रादुर्भवति भूम्यभाग्यवशात् । न हि निप्पुण्यपिपासितनृणां, पीयूषसामग्री ॥ ३ ॥ हा धिग् ! धिग् ! दैवं प्रति, किं चक्रे तेन सततवक्रेण ? | यन्मे मनोरथतरु-र्मूलादुन्मूलितोऽनेन ॥ ४ ॥
८१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com