________________
करुणरसकदम्बकम्
वृथा मम समुत्पन्नो, विभ्रमो यद् 'विभावरी । तदिनं दृश्यते यस्मिन्निमो विश्वप्रकाशकः ॥ ३८० ॥ भास्वंतं सवितारं तं, विनाऽहरपि शर्वरी । जाता यन्मे तमोजालैः किलान्धाः सकला दिशः ॥३८१॥ प्रमादसदनं स्वामिन् !, यद्यहं तत् कथं त्वया । नात्मपुत्रप्रमोदाय, दिनमेकमपि स्थितम् ? ॥ ३८२ ॥ लोकेप्वपत्यवत् पूर्व, ममत्वमकृथा यथा । सांप्रतं निर्ममत्वं ते, तथाऽपत्येषु लोकवत् ॥ १८३ ॥ धिग् मामेकदिनाहार-ग्रहणेनापि न प्रभुः । मानितस्त्रिजगन्मान्यो, जनसामान्यमप्यहो ॥ ३८४ ॥ वैदसंभावनोद्धृतं, प्रभूतं, मे पराभवम् । अपनेष्यति को नाम, नाथ ! नाथं विना परः ? ॥३८५॥ यावत् तेऽजनि वात्सल्य, सर्वेष्वन्येषु सूनुषु । मय्यासीत् तावदेकस्मिन् , कुत्र तत् ते गतं प्रभो! ॥३८६॥ बाल्येऽपि हृदयक्रोडे, सदा मां कृतवानसि । संप्रत्यपि ततो नाथ !, हृन्मध्ये धृतवान्न किम् ? ॥३८॥ लोकमतुरनालोक-शोकशंकाऽतिसङ्कुलम् । ततस्तं विषमूर्छालमिव मन्त्रीत्यबोधयत् ॥ ३८८ ॥
--पद्मानन्दकाव्यम् स० १३
१ रात्रिः । २ स्वामी । ३ निशा । ४ तवासत्कारजन्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com