________________
करुणरसकदम्बकम्
६७. [३५] प्रियायाश्चयवने ललिताङ्गस्य आक्रन्दः । हा दयिते ! हा दयिते !, कासि कास्येहि दर्शनं देहि । यत् त्वां विना त्रिदिवमपि, दुःखकरं नरकवजज्ञे ॥ ७६ ॥ सततं त्वयि चाटुरसे, मम वचसि प्राप नापराऽवसरम् । त्वद्वदनेन्दुज्योत्स्ना-पानरते हक्चकोरे च ॥ ७७ ॥ अस्वमस्य ममास्तु, स्वप्नेऽप्यन्याश्रयः प्रिये ! कस्मात् । लवमानं त्वद्विरहा-सहेत्र मयि तत् कथं कोपः॥७८॥-युग्गम् ॥ न कदापि त्वं कुपिता, मयाऽनुनीताऽपि नैव तेन त्वम् । अनुनयसुखाय कैतकं, कृत्वा कोपं स्थिता कापि ॥७९॥ ज्ञातमिदं तेन त्वां, नन्दनवनकल्पवल्लिकुञ्जान्तः । निजवल्लभां निभाल्य, क्रमपतितोऽनुनयमेवकर्ताऽहम् ।।८०॥ इति बुद्धैयव स नन्दन-वने भ्रमन् प्रतिनिकुञ्जमित्यूचे । हा सुमुखि ! हा घनस्तनि,हा सुश्रोणि! किमिहापि न त्वमसि ॥८१
-बमानन्दकाव्यम् स० ४
१ अन्या योषित् । २ कोपापनयसुखाय । ३ कृत्रिमम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com