SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् सहकारो नलो राजा राज्यं पुष्पफलादिकम् । फलास्वादो राज्यसुखं भृङ्गाः परिजनो मम ॥ ५४७ ॥ 'सहकारतरुयश्चोन्मूलितो वनदन्तिना । राज्यादुत्थाप्य दैबेन प्रावास्यत स मे पतिः ।। ५४८ ॥ यच्चास्मि पतिता वृक्षात्तद्भ्रष्टास्मि नलादहम् । स्वप्नेनानेन नूनं मे नलो दुर्लभदर्शनः ।। ५४९॥ त्रिभिर्विशेषकम् ॥ स्वप्नार्थमिति निर्गीय सा दध्या विति धीमती । न राज्यं न पतिश्चेति द्वयमापतितं मम ।। ५५० ॥ व्यलपन्मुक्तकण्ठं च सा तार तारलोचना । दुदेशापतितानां हि स्त्रीणां धैर्यगुणः कुतः ? ॥ ५५१ ॥ हा नाथ ! मां किमत्याक्षीः ? किं भाराय तवाभवम् ? । न यात्मीया कञ्चुलिका जातु भाराय भोगिनः ॥ ५५२ ।। नेमणान्तरितोऽभूस्त्वं यद्वा वल्लीवने क्वचित् ? । तत्प्रकाशो भव चिरं न हि नापि शर्मदम् ॥ ५५३ ॥ प्रार्थये वः प्रसीदन्तु मह्यं हे वनदेवताः !। प्राणेशं दर्शयत मे मार्ग वा तत्पवित्रितम् ॥ ५५४ ॥ द्विधा भव धरित्रि ! त्वं वालुकमिव पाकिमम् । त्वदत्तविवरेणाहं प्रविश्याप्नोमि 'निर्वृतिम् ॥ ५५५ ॥ १ आम्रवृक्षः । २ उच्चैः। ३ दीर्घलोचना। ४ सर्पस्य । ५ हास्येन । ६ कल्याणदम् । ७ वालुंकं चिभटकं, भाषायां 'चीभडु' इति । ८ पक्कम् । ९ शान्तिम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy