________________
गणककुमुदकौमुदीटीकासमेतम् । (६७)
तांशास्तेषां भुजं कृत्वा ज्या साध्या ततः प्राग्वदक्षवलनमानेयम् ।उक्तं च पर्वमालायाम्,—स्वरात्रौ शेषजा नाड्यो युदलं स्पर्शमोक्षयोः । नतं स्यात्स्वदिनं प्राग्वत्तन्नाड्यः षडुणा लवाः ३ तगुजज्या पलांशन्नी त्रिज्याभक्ता लवादिकम् । वलनं स्यादुदग्याम्यं ग्रहणं प्राक्परस्थिते २ पुनरुक्तम्, रात्रेः शेषघटीयुक्तं दिनार्द्ध प्राङ्गतं खेः । रात्रेर्गतघटीयुक्तं दिनार्द्ध प्रत्यङ्गतं रवेः १ दिनशेषघटीयुक्तं निशार्द्ध प्राङ्गतं भवेत् । सूर्योदयागुङ्गिशार्द्ध प्रत्यगिन्दोर्नतं मतम् २ ततः खाङ्काहतमित्यादिकार्यम् | ब्रह्मतुल्यभाष्ये तु ग्रस्तोदये स्पार्शिकनतं यस्तास्ते मौक्षिकं नतम् । स्वदिनार्द्धाद्यावदधिकं भवति तस्य स्वदिना - वशादशान्प्रसाध्य नवते ९० र्विशोध्य तज्ज्यां कृत्वाऽक्षांशैः सङ्गण्य त्रिज्यया भाज्यं तदक्षजं वलनं स्यात् । ग्रस्तोदये सौम्यं ग्रस्तास्ते दक्षिणमिति । एतदुदाहरणं यथास्थानं दर्शयिष्यामः । अस्तात्स्पर्शघटी ७ चन्द्रदिनार्द्धम् १६।४९ अनयोरन्तरं स्पर्शनतं९।४९प्राक् खाङ्काहतं८८३ । ३० स्वदिनार्थेन १६ । ४९भक्तं लब्धं नतांशाः ५२।३२।१३एषां ज्या ९५।२ अनयाक्षांशाः २४ । ३५।९ गुणिताः २३३६ । २८।५८ त्रिज्यया १२० भक्ते लब्धमाक्षजवलनमंशादिः १९ / २८ । १४ प्राङ्गतत्वादुत्तरम्, अथायनांशाःस्पर्शकालः ७यात्येष्यनाडीत्यादिना स्पार्शिकश्चन्द्रः १।२९।११।३८ सायनः २।१७/१९/२० कोटि ०।१२।४।४०ज्या २६ । १बाणैर्भक्ता लब्धमायनं वलनम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com